________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विनयस्तानेव प्रकाय कायवाडमनालाविनयाभ्यास वर्तित
गृहस्थेषु तथाविधागारिषु श्रावकेषु पार्श्वस्थादिषु एष लोकोपचारविनयाभ्यास वर्णित्वादिलक्षणो यतनया प्रवचनोबतिव्याघातपरिहारेण संयमानावाधया च क्रियते, तदेवं कायवाङमनोलोकोपचारभेदतश्चतुः प्रकारः प्रतिरूपविनययुक्तः अथवा अन्यथा चतुः प्रकारः प्रतिरूपविनयस्तानेव प्रकारान् दर्शयति ।। छ ।।। चउहा वा पडिरूवो तत्थेगणुलोमवयणसहियत्तं । पडिरूवकायकिरिया फासणसव्वाणुलोमंच॥भा०८६॥
वाशन्दः प्रकारांतरद्योतनार्थः, अन्यथा वा चतुष्प्रकारः प्रतिरूपविनयः तत्र तेषु चतुर्यु प्रकारेषु मध्ये एकः प्रतिरूपविनयस्तावदयं यदुत अनुलोमवचनसहितत्वं यत्किमपि कार्यमादिष्टः करोति, तत्सर्वमनुलोमवचनपूर्वकं करोति नान्यथेति भावः, द्वितीयप्रतिरूपकायक्रिया यथा परिपाट्या शरीरविश्रामणमित्यर्थः, तृतीयः संस्पर्शनविनयः यथा गुर्वादेः सुखासिको | यः जायते तथा मृदुसंस्पर्शनप्रत्येकः संस्पर्शनविषय इतिभावः, चतुर्थः सर्वानुलोमता सूत्रे सर्वानुलोममिति भावप्रधानो निर्देशः, चः समुच्चये सा च सर्वानुलोमता व्यवहारविरुद्धपि प्राण व्यपरोपणकारिण्यपि वा समादेशे यथाक्रमं तथेति प्रतिपत्तिस्तथैव वा कार्यसंपादनमित्येवं रूपा एतानेव प्रकारान् क्रमेण व्याचिख्यासुः प्रथमतोनुलोमवचनसहितत्वं व्याख्यानयति । छ।
अमुगं कीर उ आमंति भणइ अनुलोमवयणसहितो उ, वयणपसायाईहि य अभिणंदइ तं वयं गुरुणो ॥ भा० ८७ ॥
For Private and Personal Use Only