________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यथा मोक्षांगतया कार्यहेतुको विनयः साधुभिः कर्त्तव्यः, एवमेव मोक्षांगतयैव कृतप्रतिकृतिरूपमपि वैयावृत्त्यं अनिदानं निदानं भोगप्रार्थना तद्रहितं भवति, कर्त्तव्यं अनिदानमिति, च विशेषणं मध्यग्रहणे दंडादेरिवाद्यतयोरपि ग्रहणमिति न्यायात् पूर्व पश्चाच्च द्रष्टव्यं, तेन सर्वोपि विनयो मोक्षार्थिभिरनिदानः कर्त्तव्यः अथ कथं कृतप्रतिकृतिरूपस्य विनयस्य मोक्षांगता? उच्यते सुशिष्यो ह्येवं परिभावयति, ज्ञानदर्शनचारित्रलाभैर्मामनुपकारिणमप्युपकुर्वति भगवंतोऽमी सूरयस्तस्मादेतेष्ववश्य विनयः कर्त्तव्यः, "जस्स तियं वेणइयं पउंजे" इति वचनादेवं च पर्यालोच्य यः क्रियते विनयः, स कृतप्रतिकृतिरूपत्वात् कृतप्रतिकृतिमोक्षांगत्वाचावश्यं कर्तव्य इति अन्यच्च उत्सर्गतस्तावत् साधुभिः सर्व निर्जराथ कर्तव्यं, केवलं कदाचिदशुभोपि | भाव उपजायते, कबुर्मगतेर्विचित्रत्वात् ततोऽशुभभावोदयवशात् यद्यपि सर्वदा न निर्जरार्थ प्रवर्तते, तथाप्येष ममापि करिष्यतीति कृतप्रतिकृतिबुद्ध्यापि वैयावृत्यं कर्त्तव्यं, तथा चाह 'कयपडिकितिविजुजई' इत्यादि यद्यपि यत् वैयावृत्यं सर्वत्र सर्वेषु प्रयोजनेषु निरानिमित्तं करोति तथापि कृतप्रतिकृतिरपि युज्यते कृतप्रतिकृतिबुद्ध्यापि वैयावृत्त्यं कर्त्तव्यमिति भावः, साधूनां ज्ञानादिपात्रतया विनयं स्थानत्वेन तेषु विनयस्य कल्याणपरंपराहेतुत्वात् । उक्तः कृतप्रतिकृतिरूपो विनयः ।
सांप्रतमार्तगवेषणरूपविनयप्रतिपादनार्थमाह । छ।
व्वावईमाइसुंअत्तमणत्तेव गवसणं कुण;-द्रव्यापदि दुर्लभद्रव्यसंपत्तौ च तथा च भवति केषुचित् | देशेष्ववं त्यादिषु दुर्लभं घृतादिद्रव्यमिति, आदिशब्दात् क्षेत्रापदि परिग्रहः, तत्र क्षेत्रापदि कांतारादि पतने, कालापदि दुर्मिने, भावापदि गाढग्लानत्वे आर्तस्य पीडितस्य अत्यन्तसहिष्णुतया अनार्तस्य वा यथाशक्तियत् गवेषणं करोति, दुर्लभद्रव्यादि
For Private and Personal Use Only