________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पीठिका
श्री व्यवहारसूत्रस्य
एव निरुपकारी देशकालानुचिततया ततो लेशतोपि परस्योपकारायोगाद् एवंरूपं भापितमायत्तोपि स्वक्शगोऽपि न गृह्णाति, नादेयबुद्ध्या शृणोति किमंग पुनः प्रमाणस्थो मान्य इति । पुव्वं बुद्धीए पासित्ता तत्तो वक्कमुदाहरे ॥ अचक्योव नेयारं, वुद्धिं अन्नेसए गिरा ॥ भा-७६ ॥
प्रागुक्तप्रकारेण पूर्व बुद्ध्या प्रेक्ष्य पर्यालोच्य पश्चात् वाक्यमुदाहरेत् उच्चारयेत अन्यथा यथा कथंचन प्रवृश्या सम्यगुपादयत्वायोगात् तथा चाह अचक्षुष्कइवधिक इव नेतारमाकर्षयितारं बुद्धिमन्वेपते गीः सदसदर्थप्रतिपाद्यते, इत्थं च वक्ता | अनुविचित्यभाषी, उक्तो वाचिको विनयः, संप्रति मानसिक विनयद्वैविध्यप्रतिपादनार्थनाह ।
माणसिओ पुण विणओ दुविहो उ समासमो मुणीयव्वो,
अकुसलमणोनिरोहो कुसलमणउदीरणं चेव ॥ भा-७७ ॥ मानसिकः पुनर्विनयः समासतः संक्षपेण द्विविधो द्विप्रकारो मुणितव्यो ज्ञातव्यः, तदेव द्वैविध्यमुपदर्शयति, अकुश। लस्य आर्तध्यानाद्युपगतस्य मनसो निरोधः, अकुशलमनोनिरोधः कुशलस्य धर्मध्यानाद्युत्थितस्य मनस उदीरणं, च समुच्चये
एवकारो अवधारणे एतावेव द्वौ भेदौ नान्याविति । छ । उक्तो मानसिकोपि विनयः, सांप्रतमोपचारिकसप्तविधविनयप्रतिपादनार्थमाह । छ।
*
॥३.
For Private and Personal Use Only