________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अब्भासवत्ति छंदोणुवत्तिया कज्जपडिकित्ती चेव, अत्तगवेसणकालो णुयायसव्वाणुलोमं च ॥भा-७८॥
गुरो रम्यासे समीपे वर्त्तते इतिशीलोऽभ्यासवर्ती, गुरुपादपीठिकाप्रत्यासत्रवर्तीति भावः छंदो गुरूणामभिप्रायस्तमनुवत्तेते, आराधयतीत्येवंशीलः, छंदोनुवर्ती तद्भावः छंदोनुवर्तिता, तथा कार्ये कार्यनिमित्तं तृतीयो विनयः किमुक्तं भवति संग्रहमुपसंग्रहं वा मे करिष्यतीत्येवं बुद्ध्या यो विनयः क्रियते स कार्यनिमित्तको विनयः, पडिकित्तीचेवत्ति कृते कार्ये यः क्रियते विनयः स प्रतिकृतिरूपत्वात् प्रतिकृतिरत्र कार्यहेतुके प्रतिकृतिरूपे च विनये आक्षेपपरिहारौ भाष्यद्वक्ष्यति, तथा द्रव्याघापत्सु आर्तस्य उपलक्षणमेतत् अनार्तस्य वा गवेषणं दुर्लभद्रव्यसंपादनादिरूपमार्तगवेषणं, तथा कालं प्रस्तावमुपलक्षणत्वात् देशं च जानातीति कालज्ञस्तद्भावः कालज्ञता देशकालपरिज्ञानं तस्मिन् सति गुर्वादिच्छंदसा गुर्वादिभ्य आहारादिप्रदानं करोति, ततो विनयहेतुत्वात्तदपि देशकाल परिज्ञानविनयः तथा सर्वेषु गुरूपदेशेष्वनुलोममप्रतिकूलतो सर्वानुलोम, च समुच्चये एष गाथासंक्षेपार्थः, व्यासार्थ तु भाष्यकृद्धिभणिषुः प्रथमतोभ्यासवर्तित्वं व्याख्यानयनाहगुरुणोय लाभकंखी, अब्भासे वट्टते सया। साह आगारइंगिएहिं, संदिट्टो वत्ति काऊणं ॥भा०७६॥
गुरोरभ्यासे समीपे लाभकांक्षी, ज्ञानदर्शनचारित्ररूपपरमार्थलाभार्थी सदा साधुः प्रवर्तते, किमर्थमित्यत आहआगारित्यादि आकारो नेत्रवक्त्रगत, इंगित चेष्टा ताभ्यां गुरोरभिप्रायमवगम्य तत्समीहितं कर्तुं संदिष्टो चेति यत किमपि गुरुणा संदिष्टः तद्वा कर्तुमिति, संप्रति च्छंदोनुवर्तितामाह । छ ।
For Private and Personal Use Only