________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हियमियअफरुसभासी, अणुवीइभासिसवाइउ; विणोएएसिं तु विभागंवोच्छामि अहाणुपुवीए॥भा०
अत्र भासिशन्दः प्रत्येकमभिसंबध्यते, हितभाषी मितभाषी अपरुषभाषी हितं परिणामसुंदरं तद्भापते, इत्येवंशीलो हितभाषिस्वरूपं वक्तव्यं, हितं च द्विविधमिहलोके हितं परलोके हितं च तत्र इहलोकहितप्रतिपादनार्थमाह ॥ वाहिविरुद्धं भुंजइ, देहविरुद्धं च पाउरो कुणइ । श्रायासपकालिचरियादिवारणं हियं तु ॥भा०६९॥ ___यः कश्चित् पुरुषो व्याधिग्रस्तो व्याधिविरुद्धं व्याधिप्रतिकोपकारि भुक्ते तथा य आतुरो ग्लानो ग्लानत्वभग्नः सन् देहविनाशकारि करोत्यनशनप्रत्याख्यानादि, तयोर्यद्वारणं, तथा आयासस्य मानातिरेकेण क्रियमाणस्य अकालचर्या रात्रौ पथि गमनमादिशब्दात् कंटकाकुलादिपथि गमनादिपरिग्रहस्तस्य च यद्वारणमेतत् ऐहिकं हितं तद्भापी ऐहिकहितभाषी; संप्रति परलोकहितभाषिस्वरूपप्रतिपादनार्थमाह । सामायारीसीयंतचोयणा उज्जमंतसंसा य, दारुणसहावतं चिय, वारेइ परत्थ हियवाई ॥ भा०७०॥
सामाचारी त्रिविधा ओघसामाचारी दशविधचक्रवालसामाचारी, पदविभागसामाचारी च तस्यां त्रिविधायामपि सामाचार्या यथायोगं सीदतः शिथिलवतश्चोदना प्रोत्साहकरणं सामाचारीसीदतचोदना, तथा उद्यच्छतत्रिविधायामपि सामाचार्या यथाशक्युद्यमं कुर्वतः शंसा प्रशंसा उपबृंहणमुद्यच्छंसा, चः समुच्चये परलोकहितभाषणमिति सामर्थ्यात् गम्यते, तत्कारी परलोकहितवादी; तथा दारुणः क्रोधाद्यन्वितः स्वभावो यस्यासौ दारुणस्वभावस्तद्भावो दारुणस्वभावता, तां यो
For Private and Personal Use Only