________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यव
हार सूत्रस्प
॥ २८ ॥
-*-*-***-+1.0.K+++K+-+03
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समय गुत्तीण य एसो भेदो उ होइ नायव्वो, समिई पयाररूवा गुत्ती पुण उभयरूवाउ ||१|| उक्तश्चारित्रचिनयः, संप्रति प्रतिरूपविनयप्रतिपादनार्थमाह ||
पडिरूवो खलु विणओ कायवइमणे तहेव उवयारे; श्रट्टचउव्विहदुविहो सत्तविह परूवणातस्स ॥ भा०६६॥ प्रतिरूपः उचितः खलु विनयश्चतुः प्रकारस्तद्यथा काये कायनिमित्तः एवं वाचि वाचिकः मनसि मानसिकः तथा उपचारे औपचारिकः श्रचउविह इत्यादि अत्र यथासंख्यं पदघटना कायिको विनयो श्रष्टविधः, वाचिकचतुर्विधः, मानसिको द्विविधः, उपचारिकः सप्तविधः, परूवणा तस्सत्ति तस्य कायिकादिभेदभिन्नस्य चतुःप्रकारस्य प्रतिरूपविनयस्य प्ररूपणा वक्ष्यमाणा तत्र यथोद्देशं निर्देश इति न्यायात् प्रथमतः कायिकस्याष्टविधस्य प्ररूपणामाह ||
प्रभुठाणं अंजलि आसणदाणं श्रभिग्गहकिई य । सुस्सूसणा य श्रभिगच्छणाय संसाहणा चेव ॥ भा०६७॥
अभ्युत्थाना गुर्वादौ समागच्छति एप सामान्यसाधूनां विनयः अपूर्वं पुनः समागच्छंतं दृष्ट्वा सूरिया प्युत्थातव्यं, अंजलिप्रश्नादौ यदि पुनः कथमध्येको हस्तः क्षणिको भवति, तदैकतरं हस्तमुत्पाट्य नमः क्षमाश्रमयेभ्य इति वक्तव्यं, चासनदानं नाम पीठका पनयनं श्रभिग्रहा गुरुनियोगकरणाभिसंधिः, कृतिश्चेति कृतिकर्म बंदनमित्यर्थः शुश्रूपणा विधिवदनतिदूरासन्नतया सेवनं, अभिगमनमागच्छतः प्रत्युद्गमनं सूत्रे स्त्रीत्वं प्राकृतत्वात् संसाधना गच्छतोनुवजनं, संप्रति बागविनयभेदानाह ||
For Private and Personal Use Only
K+OK+ +4.04000***
पीठिका
॥ २८ ॥