________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नाधिकः स तेन तत् प्रवचनं प्रभावयति यथा भगवदार्यवज्रस्वामिप्रभृतिकः, उक्तं च ।। कामं सभावसिद्धं तु पवयणं दिप्पते सयंचेव; तहवि य जो जेणा हिओ सोतेण पभावए तं तु ॥२॥
तेच प्रवचनप्रभावका अतिशय्यादयः उक्तं च ॥ अतिसेसहडि धम्मकहि वादि पायरिय खवग नेमित्ती । विज्जारायागणसम्मया य तित्थं पभातिशा
अस्याक्षरगमनिका अतिशयी अवध्यादिज्ञानयुक्तः, ऋद्धिग्रहणात् आमोषध्यादिऋद्धिप्राप्तः आचार्यः वादि धर्मकथि क्षपक नैमित्तिकाः प्रतीताः विद्याग्रहणात् विद्यासिद्धः आर्यखपटवत् राजगणसंमताश्चेति राजसंमता मंत्र्यादयः, गणसंमत्ता महत्तरादयः च शब्दादानश्रद्धादिपरिग्रहः एते तीर्थ प्रवचनं प्रभावयंति, स्वतः प्रकाशकस्वभावमेव सहकारितया प्रकाशयंतीति, मत्ति एवं दर्शनविनयभेदा अष्टौ भवंति, चारित्रविनयोप्यष्टप्रकारः तथा चाह॥ पणिहाणजोगजुत्तो पंचहिं समिईहिं तिहिं य गुत्तीहिं । एस उ चरित्तविणओ अविहो होइ नायव्वो
प्रणिधानं चेतःस्वास्थ्यं तत्प्रधाना योगाः प्रणिधानयोगाः योगा व्यापारास्तैर्युक्तः समन्वितः प्रणिधानयोगयुक्तः, भयं* च यतो अविरतसम्यग्दृष्टिरपि भवति, तत् पाह, पंचभिः समितिभिस्तिमृभिश्च गुप्तिभिर्यः प्रधानयोगयुक्त एप चारित्रविनयः विनयविनयवतोः कथंचिदव्यतिरेकादष्टविधो भवति ज्ञातव्यः, समितिगुप्तियोगभेदाः, तत्र समितयः प्रवीचाररूपा, गुप्तयः प्रतीचाराः प्रतीचाररूपाः, उक्तं च ॥
For Private and Personal Use Only