________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहारसूत्रस्य
॥ २३ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुत्तीसुयसमितीसुय पडिवीजोगेत हापसत्थेय वइक्कमे श्रणाभोगे पायच्छित्तं पडिकमणं ॥ भा ६० ॥
गुप्तस्तिस्तद्यथा मनोगुप्ति वचन गुप्तिः काय गुप्तिस्तासु, समितयः पंच तद्यथा इर्यासमिति र्भाषा समितिरेषणा समितिरादान भांडमात्र निक्षेपणा समिति रुच्चार प्रश्रवण श्लेष्मसिंधाणजलपारिष्ठापनिका समितिश्च एतासु च सहसाकारतोsनाभोगतोवा कथमपि प्रमादे सतीतिवाक्यशेषः प्रायश्वित्तं प्रतिक्रमणं मिथ्यादुष्कृतप्रदानलक्षणं, इय मत्रभावना, सहसा - कारतोऽनाभोगतो वायदिमनसा दुश्चितितं स्यात् वचसादुर्भाषितं, कायेनदुश्चेष्टितं, तथा ईर्यायां यदि कथां कथयन् व्रजेत् भाषायामपि यदि गृहस्थ भापयाढड्डूरखरेण वा भाषेत, एषणायां भक्तपान गवेषणवेलायामनुपयुक्तो भांडोपकरणस्यादाने निदेवा प्रमार्जयिता अप्रत्युपेक्षितेस्थंडिले उच्चारादीनां परिष्ठापयिता नच हिंसादोष मापन्नः उपलक्षणमेतत् तेनयदि कंदर्पो वा हासो वा स्त्रीभक्तचौरजनपदकथया तथा क्रोधमानमायालोभेषु गमनं विषयेषु वा शद्वरूपरसगंधस्पर्श लक्षणेवनुषंगः सहसा नाभोगतो वा कृतः स्यात् ततएतेषु सर्वेषु स्थानेषु मिथ्यादुष्कृत प्रदानलक्षणं प्रायश्चित्तमिति, तथा प्रतिरूपयोगे प्रतिरूपविनयात्मके व्यापारे तथा प्रशस्तो यो यत्र करणीयो व्यापारः सतत्र प्रशस्त इच्छामिच्छाइत्यादि स्तस्मिन्न पिवाक्रियमाणे प्रायश्चितं प्रतिक्रमणं, इह प्रतिरूपग्रहणं ज्ञानादि विनयोपलक्षणं, ततो यमर्थः ज्ञानदर्शनचारित्रप्रतिरुपलक्षणप्रकारविनयाकरणे इच्छा मिथ्या तथाकारादि प्रशस्तयोग करणे उपलक्षणमेतत् श्राचार्यादिषु प्रद्वेषादिकरणे वाच अंतर भाषादि कृतौ कायेनपुरो गमनादौ प्रतिक्रमणं प्रायश्चित्तं, तथा उत्तर गुण प्रतिसेवनायां वइकमेइति मर्यादाकथनं तेनातिक्रमेव्यतिक्रमेच प्राख्याख्यातस्वरुपे तथा अनाभोगाद कृत्यप्रतिसेवने मिथ्यादुष्कृत प्रदानात्मकं प्रतिक्रमणं प्रायश्चित्तमिति
For Private and Personal Use Only
**-**+++++****+ *OK ++K++**
पीठिका
॥ २३ ॥