________________
Shri Mahavir Jain Aradhana Kendra
www.kobairth.org
Acharya Shri Kailassagarsuri Gyanmandie
तेलिंगक्षेत्रकालतपसां पारमंचति तत् पारांचित महतीति पारांचितं, एपसंक्षेपार्थः विस्तरार्थ तु प्रतिद्वारम् भाष्यकृदेववक्ष्यति, तत्र प्रथमद्वारमालोचनेति विवरिपुरिदमाह । छ ।
बालोयणत्तिकापुण कस्ससगासेचेवहोइकायव्वा केसुच कजेसु भवे, गमगा गमणादिएमुतु॥भा ५४॥ ___काकिस्वरूपापुनरालोचनेति, प्रथमतः प्रतिपाद्यंतदनंतरं कस्य सकाशे समीपे भवति कर्तव्यालोचनेतिवाच्यं, तथा केषुकार्येषु भवत्यालोचना तत्र प्रतिपत्तिलाघवाय संक्षेपतोऽ त्रैवनिर्वचनमाह गमनागमनादिकेषुगमने आगमने आदि शब्दात शय्या संस्तारकः वस्त्रपात्रपादनोंच्छनक ग्रहणादि परिग्रहः, तु शब्दो विशेषणे सचैतत् विशिनष्टि, गमनागमनादिष्वा वश्यकत्र्तव्येषु सम्यक्उपयुक्तस्यादुष्टभावतया निरतिचारस्य छद्मस्थस्या प्रमत्तस्य यतेरा लोचना भवतीति अाह, यानि नामावश्यकर्त्तव्यानि गमनादीनि तेषु सम्यगुपयुक्तस्या दुष्टभावतया निरतिचारस्या प्रमत्तस्य किमालोचनया ? तामंतेरणापि तस्य शुद्धत्वात् यथा सूत्रं प्रवृत्तेः सत्य मेतत केवलं या चेष्टा निमित्ताः सूक्ष्मप्रमादनिमित्ता वा, सूक्ष्मा आश्रवक्रियास्ता आलोचनामात्रेण शुध्यंतीति, तच्छुल्हिनिमित्त मालोचना, उक्तं च
जया उवउत्तो निरइयारोय करेइ करणीजावते जोगा तत्थका विसोही आलोइए अणालोइ एवा ॥१॥ गुरु भणइ, तत्थ जाचिट्ठ निमित्ता वा मुहुमाआसब किरियाताउसुझंति आलोयणमित्तेणंति ॥२॥ तत्र कानामालोचनेतियत् प्रथमंद्वारं तत्प्रसिद्धत्वादन्यत्र वा कल्पाध्ययनादिपुव्याख्यातत्वादिहभाष्यकृता न व्याख्यातं, तथापिस्थाना शून्यार्थकिंचिदुच्यते, आलो- | चना नाम अवश्यकरणीयस्य कार्यस्य पूर्ववा कार्यसमाप्ते रूधुंवा यदिवापूर्वमपि पश्चादपि च गुरोः पुरतोवचसाप्रकटीकरणं
For Private and Personal Use Only