________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
श्री व्यवहारसूत्रस्य
सा चालोचना उपरितनेषु प्रायश्चित्तेषु केचित् संभवति केचिन्न संभवति तत्रयेपुसंभवति तत्प्रसिध्यर्थमिदमाह । छ । बिइएनस्थिवियडणावाउविवेगेतहाविउस्सग्गो पालोयणाउ नियमा गीयमगीयेच केसिंचि॥भा ५५॥
द्वितीयंत्रक्रमप्रामाण्या नुसरणात् प्रतिक्रमणं, तस्मिन् द्वितीये प्रतिक्रमणलक्षणे प्रायश्चित्ते नास्ति विकटना आलोचना, तथाहि सहसानाभोगतोवा यदि किंचिदाचरितं भवति यथा मनोज्ञेषु शब्दादिष्विद्रियगोचरमागतेषु रागगमनम् अमनोज्ञेषु द्वेषगमनं, तदा तदनंतरमेव मिथ्यादुष्कृतमिति ब्रूते तच्चतेनैव शुद्धियातीतिनालोचयति, वाउ विवेगत्ति वा शब्दो विभाषायां विवेके विवेकाहे प्रायश्चिते, आलोचना या विभाषा कदाचिद् भवति, कदाचिन भवतीति भावः, तथाहि तद् विवेकाहं नाम प्रायश्चित्तं यत्परिस्थापनया शुध्यति, तत्र यदकल्पिकमाधाकम्मिकादि पूर्वऽमविदितत्वेनगृहीतं, पश्चाच कथमपि ज्ञातं तद्यदा परिस्थापयतः शुभभावनाध्यारोहकेवलज्ञानमुत्पद्यते, तदाऽ सौ कृतकृत्यो जात इतिनालोचयति, अनुत्पन्ने तुज्ञानातिशये नियमादागत्य गुरुसमीपमालोचयतीति, तहाविउस्सग्गे इति, यथा विवेके आलोचनायाविभाषा, तथा व्युत्सर्गेपि, किमुक्तं भवति, व्युत्सर्गेपि कदाचिदालोचना न भवति, यथास्वप्ने हिंसादिकमासेवितं तच्छुद्धिनिमित्तं च कायोत्सर्गः कृतः तदनंतरंच शुभभावनाप्रकर्षतः केवलज्ञानमुदपादि, मरणं वा तस्याकस्मिकमुपजातमिति नास्त्यालोचना, अनुत्पन्ने ज्ञाने जीवन् नियमादावश्यकं विकटयन् आलोचयति, यथा स्वप्नेमया हिंसादिक मासेवितं कायोत्सर्गेणच शोधितमिति, गतमालोचनेतिद्वारमधुना कस्यसकाशे आलोचना कर्तव्येतिद्वारं विवरीपुराह, सा आलोचना नियमाद वश्यतया गीतमिति प्राकृतत्वात् षष्ठयथें प्रथमा तस्य गीतार्थस्य सकाशे कर्तव्या, नागीतार्थस्य, अत्रैवभतांतर माह छ। अगीये
२१॥
For Private and Personal Use Only