________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रस्य
पीठिका
॥२०॥
अनया मर्यादया लोकदर्शने चुरादित्वात् णिच लोकनं लोचना प्रकटी करणं, आलोचनं गुरोः पुरतोवचसा प्रकटीकरणमि-1E तिभावः यत् प्रायश्चित्तमालोचना मात्रेण शुध्यति, तदालोचनाहतया कारणे कार्योपचारा दालोचनं, तथा प्रतिक्रमणं दोपात् ।। प्रतिनिवर्त्तन मपुनः करणतया मिथ्यादुष्कृतप्रदानमित्यर्थः, तदहं प्रायश्चित्तमपि प्रतिक्रमणं, किमुक्तं भवति प्रायश्चित्तं मिथ्यादुष्कृत मात्रेणैवशुद्धिमासादयति, नच गुरु समक्षमालोच्यते, यथा सहसानुपयोगतः श्लेष्मादि प्रक्षेपादुपजातं प्रायश्चित्तं तथाहि सहसानुपयुक्ते यदि श्लेष्मादि प्रक्षिप्तंभवति, न च हिंसादिकं दोपमापनस्तर्हि गुरुसमक्षमालोचनामंतरणापि मिथ्यादुः कृतप्रदानमात्रेण स शुध्यति. तत् प्रतिक्रमणमाहत्वात् प्रतिक्रमणं, यस्मिन् पुनः प्रतिसेविते प्रायश्चित्ते यदि गुरुसमक्षमालोचयति, बालोच्ययो गुरु संदिष्टः प्रतिक्रामति पश्चाच्च मिथ्यादुःकृतमिति ब्रूते, तदा शुध्यति तत् आलोचनाप्रतिक्रमणलक्षणोभयार्हत्वात् मिश्रं, तथा विवेकः परित्यागः यत् प्रायश्चित्तं विवेक एवकृते शुद्धिमासादयति नान्यथा, यथाधाकर्मणि गृहिते तत विवेकाहत्वात विवेकः तथा व्युत्सर्गः कायचेष्टानिरोधोपयोगमात्रेण शुध्यति प्रायश्चित्तं, यथा दुःस्वप्नजनितं तद्व्युत्सर्गाहत्वात् व्युत्सर्गः तवेत्ति यस्मिन् प्रतिसेवितनिर्विकृतकादिषण्मासपर्यवसानं तपादीयते, तत् तपोहत्वात् तपः यस्मिन् पुनरापतिते प्रायश्चित्त संदृषित पूर्वपर्याय देशच्छेदनमिव शेषशरीरावयव परिपालनाय क्रियते, तत्च्छेदार्हत्वात् च्छेदः, मूलत्ति यस्मिन् समापतिते प्रायश्चित्ते निरवशेषपर्यायोच्छेदमाधाय भृयोमहावतारोपणं तन्मूलाहत्वान् मूलं, येन पुनः प्रतिसेवितेनोत्थापनाया अप्ययोग्यः सन् कंचित्कालं न व्रतेषु स्थाप्यते, यावनाद्यापि प्रतिविशिष्टं तपश्चीण भवति, पश्चाच चीर्णतपास्तद्दोपोपरतो तेषु स्थाप्यते तदनवस्थित्वादनवस्थितप्रायश्चित्तं पारंचिए चेवत्ति अचूगताच, यस्मिन् प्रतिसेवि-
॥२०॥
For Private and Personal Use Only