________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पदभेदं करोति, आदिशब्दान् मार्गे गच्छति, गृहं प्रविशति, आधाकर्मग्रहणाय पात्रं प्रसारयति, न चाद्यापि प्रतिगृहणाति, एष सर्वोपि व्यापारो व्यतिक्रमः गहिए तइओनि आधाकर्मणि गृहीते उपलक्षणमेतत् यावट्वसतौ समानीते गुरुसमक्षमालोचित मोजनार्थमुपस्थापिते मुखे प्रक्षिप्यमाणेऽपि यावन्नाद्यापिगिलति तावत् तृतीयोऽतिचारलक्षणो दोषः, गिलिते त्वाधाकर्मणानाचारः, एवं सर्वेष्वप्यौदेशिकादिषु भावनीयं, अत्रैव प्रायश्चितमाह ।। तिन्निय गुरुगामा सा विसेसिया तिण्हवगुरु अंते, एए चेव य लहुया विसोहिकोडीए पच्छित्ता॥भा ४४॥
त्रयाणामतिक्रमव्यतिक्रमातिचाराणां त्रयो गुरुकामा सा कथंभूता इत्याह विशेपितास्तपःकालविशेषिताः किमुक्तं भवति अतिक्रमेऽपिमासगुरुरतीचारेऽपिमासगुरुरेते च त्रयोऽपि यथोत्तरं तपःकालविशेषिताः अथ अंते अनाचारलक्षणे दोषे चतुर्गुरु चतुर्मासगुरुप्रायश्चित्तं, एते च मासगुर्वादयः प्रायश्चितभेदा अतिक्रमादिष्वपि शोधिकोट्या त्वेत एवमासादयोलघुका प्रायश्चितानि तद्यथा अतिक्रमे मासलघुव्यतिक्रमेऽपि मास लघु, अतिचारेऽपि मास लघु नवरमेते यथोत्तरं तपःकालविशेषिताः | | अनाचारे चतुर्मासलघुः मूलगुणे पंचविधा प्रतिसेवनेति यदुक्तं तत्र पंचविधत्वं दर्शयति । छ । पाणिवहमुसावाए श्रदत्तमेहुणपरिग्गहे चेव, मूलगुणे पंचविहा परूपणा तस्तिमा होइ ॥ भा ४५॥ |
प्राणवधस्त्रसस्थावरप्राणिहिंसा, मृपाबादो भृतोपघातिवचः, अदत्तादान स्वामिगुर्वननुज्ञात ग्रहणं, मैथुनं स्त्रीसेवा, परिग्रहःस च बाह्याभ्यंतरवस्तुघु मृच्छो सर्वत्र एकारांतता प्राकृतलक्षणवशात मूलगुणे मलगुणविषया पंचविधा प्रतिसेवना तस्याश्च
For Private and Personal Use Only