________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पीठिका
श्री व्यवहारसूत्रस्य
॥१८॥
पंचविधाया प्रतिसेवनायाःसंरंभादिभेदतःप्रतिभेदंत्रिरूपाया इयं वक्ष्यमाणा प्ररूपणा संरंभादिव्याख्यानरूपा भवति तामेव दर्शयति । छ। संकप्पो संरंभो परितावकारी भवे समारंभो प्रारंभाउ दवउ, सव्वनयाणंपि सुद्धाणं ॥ ४६॥
प्राणातिपातं करोमीति यः संकल्पोऽध्यवसायः स संरंभो यस्तु परस्य परितापकरो व्यापार ससमारंभः अपद्रावयतो जीवितात्परं व्यपरोपयतो व्यापारः आरंभाः आह च चूर्णीकृत् पाणाइवायं करोमीति जो संकप्पं करेइ चिंतयतीत्यर्थः सरंभे वट्टइ परितावणं करेइ समारंभे वट्टइति एतच्च संरंभादित्रितयं सर्वनयानामपि शुद्धानां सम्मतं अथ शुद्धाणमित्यत्र प्राकृतत्वात् पूर्वस्याकारस्य लोपो द्रष्टव्यः ततोऽयमर्थः सर्वनया नामप्यशुद्धानामे तत् संरंभादि त्रितयंसम्मतं । छ ।
न तु शुद्धानामिति, अथके नयाः शुद्धाः केवाऽशुद्धाः इति शुद्धाशुद्धनयप्रतिपादनार्थमाह । छ । सव्वेवि होंति सुद्ध, नत्थि असुद्धोनयोउ सठाणे, पुठवावपच्छिमाणयउ सुद्धचउपच्छिमा तेसिं॥भा४७॥
नयाः सप्त तद्यथा, नैगमः, संग्रहो, व्यवहारः, रुजुसूत्रः, शब्द, समभिरूढ, एवंभूत इति, एते च सर्वे नया स्वस्थाने निजनिजवक्तव्यतायां शुद्धा नास्ति सकश्चिन्नयो यः स्ववक्तव्यतायामप्यशुद्धः सर्वेषामपि परिपूर्णस्ववक्तव्यताभ्युपगमपरत्वात् उक्तं च निययवयणिज सव्वा सव्व नयापरवियालणे मोहा यद्यप्पेतदस्ति तथापि नैतत् प्रस्तुतोपयोगि, सर्वनयानां संरंभादित्रितयान : भ्युपगमात् । ततः प्रकारांतरेण शुद्धाशुद्धनयप्ररुपणामाह पुवावेत्यादि पूवों आदिमा वा शब्दः प्रागुक्तपक्षापेक्षया पक्षांतर
For Private and Personal Use Only