________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यव
हारसूत्रस्य
॥ १७ ॥
«**O*•-•£6 ****@***<<+X
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सा पुण
कमवइकमे यइयारा तह श्रणायारे संरंभ समारंभ आरंभ रागदोसादी ॥ भा ४२ ॥ सा उत्तरगुणप्रति संवना पुनरतिक्रमे व्यतिक्रमे अतिचारे अनाचारे च भवति एतदुक्तं मवति, सर्वाप्युत्तरगुणप्रतिसेवना यतिक्रमादिभेदतश्चतुःप्रकारा, मूलगुणप्रतिसेवना संरंभ समारंभे, आरंभे च संरंभादिभेदतस्त्रिप्रकारेतिभावार्थः, ते च संरंभादयो रागद्वेषादितः रागतो द्वेषत श्रादिशब्दादज्ञानतथः तत्र रागतो यथा चिलातीपुत्रस्य सुसुमावधः द्वेषतो यथा सत्य के द्वेर्पायनव्यापादनमज्ञानतो ब्राह्मणादीनां छागादिवधः ननु यथोद्देशस्तथा निर्देश इति प्रथमतो मूलगुणप्रतिसेवनाव्याख्यातुमुचिता पश्चादुत्तरगुणप्रतिसेवना अत्र तु विपर्यय इति कथं ? उच्यते, इह प्रायः प्रथमतोऽल्पसंक्लिष्टाऽध्यवसायः स तूत्तरगुप्रति सेवनां कुरुते, पश्चादतिसंक्लिष्टाध्यवसायो मूलगुणप्रतिसेवनामिति ख्यापनार्थं विपर्ययेणोपन्यास इत्यदोषः संप्रति अतिक्रमादीन्पिड विशुद्धिमधिकृत्य व्याचिख्यासुराह । छ ।
आहाकम्मनिमंतण, पडिसुरणमाण अतिक्कमो होइ, पयभेयाइवइक्कम, गहिए तइएतरोगिलिए ॥ भा ४३ ॥
कोsपि श्राद्धो नालप्रतिबद्धो ज्ञातिप्रतिबद्धो गुणानुरक्तो वा श्रधाकर्म निष्पाद्य निमंत्रयति, यथा भगवन् युष्मन्निमित्तमस्मद्गृहे सिद्धमन्नमास्ते इति समागत्य प्रतिगृह्यतामित्यादि तत् प्रतिशृण्वति अभ्युपगच्छति अतिक्रमो नाम दोषो भवति, स च तावत् यावदुपयोगपरिसमाप्तिः किमुक्तं भवति, यत् प्रतिशृणोति प्रतिश्रवणानंतरं चोत्तिष्टति, पात्राण्युद्गृहणाति उद्गृह्य च गुरोः समीपमागत्योपयोगं करोति, एप समस्तोपि व्यापारोऽतिक्रमः, उपयोगपरिसमाप्यनंतरं च यदाधाकर्म्मग्रहणाय
For Private and Personal Use Only
3268*************+++++
पीठिका
॥ १७ ॥