________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
गृह्यते इति, ॥ सव्वत्थ समं वा गेण्हेजा. कदाचित् पुनः सर्वत्र स्थापनायामारोपणायां तथा आरोपणाया भागे हृते ये लब्धा मासास्तेषु च समं दिवसग्रहणं भवति, यथा प्रथम स्थाने विंशिकायां स्थापनायां विंशिकायामारोपणायां द्वितीय स्थाने पाक्षिक्यां स्थापनायां पाक्षिक्यामारोपणायां तृतीय स्थाने पंचदिनायां स्थापनायां पंचदिनायामारोपणायां, चतुर्थे स्थाने एकदिनायां स्थापनायां एकदिनायां चारोपणायामेवमन्यास्वपि द्विव्यादिदिनासु स्थापनारोपणासु यथायोगं भावनीयःविसमाआरोवणातो विसमं गहणं तु होइ नायव्वं । सरिसेवि सेवियम्मी जहा झोषो खलु विसुद्धो॥२४॥
इह आरोपणाग्रहणेन स्थापनापि गृहीता द्रष्टव्या, तत्र प्रतिसेवनां कुर्वता यद्यपि सर्वेपि मासाः सदृशापराधप्रतिसेवनेन प्रतिसेवितास्तथापि सदृशे सेवितेपि सदृश्यामपि प्रतिसेवनायां याः स्थापनारोपणाः परस्परं दिवसमानेन विषमास्ताभ्यस्तदनुरोधेन आरोपणाया भागे हृते ये लब्धा मासास्तेषु दिवसग्रहणं विषमं भवति ज्ञातव्यं, स्थापनारोपणादिवसानां परस्परविषमत्वतस्तेष्वपि ग्रहणं विषमं भवतीति प्रतिपत्तव्यमिति भावः, एवं विषमासु कृत्स्नारोपणास्वभिहितं, याः पुनरारोपणा विषमा अकृत्स्नाश्च तत्र दिवसग्रहणं कुर्वता यथा झोषो विशुध्यति, तथा खलु निश्चितं कर्त्तव्यं नान्यथेतिः । एवं खलु ठवणातो पारुवणातो विसेसतो होति ॥ ताहि गुणा तावइया नायव्व तहेव झोषाय ॥२४६।।
एवमुक्तप्रकारेण स्थापनात आरोपणा विशेषतो भवंति, तथाहि यदा स्थापनामासशुद्धाः शेषामासा यावतोऽधिकृतायामारोपणायां मासास्तावत्संख्याका भागाःक्रियंते, कृत्वा च प्रथमो भागः पंचदशगुणः क्रियते, शेषाः पंचगुणा यदिवा सर्वे
For Private and Personal Use Only