SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यव- हारसूत्रस्य पीठिका:नंतरः। ॥ ५॥ लक्षणं प्रतिपिपादयिषुर्यथा स्थापनारोपणामासेभ्यः शेषसंचयमासेभ्यश्च दिवसग्रहणं क्रियते, तथा प्रतिपादयति; द्वितीयो होइ समे समगहणं तहवि य पडिसेवणाउ नाऊणं। हीणं वा अहियं वा सव्वत्थ समं वा गेण्हेज्जा ॥२४४॥ विभागः। स्थापनारोपणादिवसानां दिवसपरिमाणे समे तुल्ये तासु स्थापनारोपणासु मासेभ्यो दिवसग्रहणं समं भवति, यावंतः स्थापनामासेभ्यः प्रत्येक दिवसा गृहीतास्तावंत आरोपणामासेभ्योपीति भावः, शेषमासेभ्यो दिवसग्रहणं समं विषम वा यथा सप्तदिनायां स्थापनायां सप्तदिनायां चारोपणायां तथाह्यत्र पूर्वकरणप्रयोगतः षड्विंशतिसंचयमासा लब्धाः, तत्र स्थापनारोपणामासाभ्यां सप्त सप्त दिनानि गृहीतानि, ये चारोपणया भागे हृते लब्धाश्चतुर्विंशतिमासास्तेष्वेकस्मात् पंच दिनानि गृहीतानि, द्वयोनियोझोषे पतितत्वात् शेषेभ्यस्तु त्रयोविंशतिमासेभ्यः सप्त सप्त दिनानीति एवमन्यास्वपि स्थापनारोपणासु तुल्ये दिवसपरिमाणे स्थापनारोपणामासेभ्यस्तुल्यदिवसग्रहणं, शेषमासेभ्यस्तुल्यं विषम वा भावनीयं, कासुचित पुनः स्थापनारोपणासु यद्यपि दिवसपरिमाणं समं भवति, तथापि प्रतिसेवनां ज्ञात्वा कस्यापि मासस्य कीदृशी प्रतिसेवना उत्कटरागाद्यध्यवसाया इति ज्ञात्वा तदनुरोधतः स्थापनारोपणासु दिवसग्रहणं कदाचिद्धीनं कदाचिदतिरिक्तं वा, किमुक्तं भवति, कदाचित् स्थापनायां हीनमारोपणायामधिकं कदाचिदारोपणायां हीनं स्थापनायामधिकं यथा विंशिकायां स्थापनायां विंशिकायामारोपणायामत्र हि द्वाभ्यामपि स्थापनामासाभ्यां प्रत्येकं दश दश दिवसा गृहीता आरोपणाया मासयोस्त्वेकस्मात् पंचदश एकस्मात् पंच अथवा स्थापनाया मासयोरेकस्मात् पंचदश दिवसा गृहीता अपरस्मात् पंच आरोपणामासाभ्यां तु द्वाभ्यां प्रत्येकं दश दशेति प्रतिसेवनाविशेषमंतरेण तु स्थापनामासाभ्यां आरोपणामासाभ्यां च प्रत्येकं दश दश दिवसा | T॥५॥ For Private and Personal Use Only
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy