________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जत्थउ दुरूवहीणा, न होति तत्थो हवंति सा भावी।
एक्काई जा चोदस, एक्का तो सेस दगहीणा ॥ २४२ ।। इह सर्वासां स्थापनानामारोपणानां च दिवसेभ्यो मासानामुत्पादनाय पंचभिर्भागो हर्त्तव्यः, तत्र भागे हृते यल्लब्धं तन्नियमात् द्विरूपहीन कर्त्तव्यं, यत्र पुनरारोपणाशुद्धहीना लब्धामासा न भवंति, एकादिषु चतुर्दिनपर्यतासु पंचभिर्भागहारस्य एवासंभवात् पंचदिनादिपु नवदिनपर्यतासु पंचभिर्भागे इते लब्धस्य द्वयोरूपयारभावात् दशदिनादिषु चतुर्दशदिनपर्यतासु शुद्धिरूपापसरणे शून्यस्य भावात् ता एकादय एकदिनादयो यावच्चतुर्दशदिनपर्यताः स्थापनारोपणाश्च स्वाभाविका एकस्मात मासात द्रष्टव्याः किमुक्तं भवति, स्वभावेनैव न तु मासोत्पादननिमित्तकरणप्रयोगत एकस्मान्मासानिवृताः प्रतिपत्तव्या इति ।। सेसद्गहीणत्ति शेपाः पुनः पंचदशदिनादयः स्थापना आरोपणाश्च विकहीना ज्ञेयाः पंचभिर्भागे हृते लब्धद्विरूपहीन स्वभावात् उपचारतो द्विकहीना उक्ताः॥ उवरिं सुपंचभइए जइ सेसा तत्थ केइ दिवसा उ। ते सव्वे एगातो, मासातो होंति नायव्वा ॥ २४३ ॥
पंचदशदिनायाः स्थापनाया आरोपणायाश्च उपरिषोडशदिनादिषु स्थापनारोपणासु पंचभिर्भागे हृते उपरिभागलब्धेभ्यः शेषा ये एकद्विकादयो दृश्यते ते सर्वे लब्धानां पूरणभृतत्वादेकस्मात् मासाद् भवंति ज्ञातव्याः, किमुक्तं भवति, तेषु शेषीभूतेप्वपि स एवैको मासो गृह्यते, यः पंचदशदिनायां लब्ध इत्येवमेकविंशतिदिनादिष्वपि भावनीयं, संप्रति हीनाहीने ग्रहणे |
For Private and Personal Use Only