________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kailassagarsuri Gyanmandie
द्वितीयो विभाग।
श्री व्यवहारसूत्रस्य पीठिकानंतरः।
॥७
॥
वयति, असंख्यातानि देशकालपुरुषभेदतोऽसमाधिस्थानानि, एवमेकविंशतिः सबलानि. द्वाविंशतिः परीषहाः, तथामोहे मोह- नीये कर्मणि येऽष्टाविंशतिभेदाः, अथवा मोहे मोहविषयाणि त्रिंशत्स्थानानि एतेभ्योऽसंयमस्थानेभ्य एष प्रायश्चित्तराशिरुत्पद्यते, भूयः शिष्यः पृच्छति, कियंति खलु तान्यसंयमस्थानानि ? उच्यते, पलितोवमेत्यादि पन्योपमे सागरोपमे यावंति वालाग्राणि तावंति न भवंति, किंतु व्यावहारिकपरमाणुमात्राणि यानि वालाग्राणां खंडानि तेभ्योऽसंख्येयानि, इयमत्र भावना, यावंति खलु पन्योपमे वालाग्राणि, तावंत्यसंयमस्थानानि भवंति नायमर्थः, यावंति सागरोपमे वालाग्राणि तावति नायमर्थः समर्थः, यद्येवं तर्हि सागरोपमे यानि वालाग्राणि प्रत्येकमसंख्येयखंडानि क्रियंते, तानि च खंडानि सांव्यवहारिकपरमाणु तावंति भवंति, नायमप्यर्थः समर्थः, कियंति पुनस्तानि भवंति ? उच्यते, तेभ्योप्यसंख्येयगुणानि, अन्ये तु ब्रुवते, परमाणुमात्राणि खंडानि सूक्ष्मपरमाणुमात्राणि खंडानि, सूक्ष्मपरमाणुमात्राणि द्रष्टव्यानि, नदसम्यक् सूक्ष्मपरमाणवो हि तत्रानं ताः, असंयमस्थानानि चोत्कर्षतोप्यसंख्येयलोकाकाशप्रदेशप्रमाणानीति; गतं राशिद्वारमधुना मान द्वारमाहबारस अठय छक्कग माणं भणियंजिणेहिं सोहिंकरं । तेण परं जे मासा, सा हणंता परिसडंति ॥२२०॥
मीयते परिछिद्यते वस्त्वनेनेति मान, तत् द्विधा द्रव्ये, भावे च, तत्र द्रव्येषु प्रस्थकादिषु, भावतः पुनरिदं मानं प्रायश्चित्तमानं जिनस्तीर्थकृद्भिस्त्रिविधं शोधिकरं भणितं, तद्यथा प्रथमतीर्थकरस्य द्वादश मासा मध्यमतीर्थकृतामष्टौ मासाः, वर्धमानस्वामिनः षट्कं षण्मासाः इतोऽधिकं न दीयते, किंतु बहुष्वपि प्रतिसेवितेषु मासेवेतावन्मात्रमेव, अत्र प्रस्थकदृष्टांतो यथा प्रस्थकेन मीयमानं धान्यं तावन्मीयते, यावत्प्रस्थकस्य शिखा परिपूर्णा भवति, ततः परमधिकमारोह्यमानमपि परिपतति,
For Private and Personal Use Only