SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एवं षण्णां मासानामधिकं यद्यपि प्रतिसेवितं, तथापि तत् स्थापनारोपणप्रकारेण संहन्यमानं परिशटति, तथाचाह, तेणपरमित्यादि तत उक्तरूपात् षण्मासादिकात् मानात् परमित्यव्ययं परा ये मासास्ते स्थापनारोपणाप्रकारेणा संहन्यमानाः संघात्यमानाः परिशटंति, तावन्मात्रेणापि च प्रायश्चित्तप्रतिपत्तारः शुध्यंति, शुद्धस्वभावत्वात् भगवतां तीर्थकृतामाझैषा सम्यगनुष्टेया इति, संप्रति प्रभुद्वारमाह| केवलमणपजव नाणिणो य तत्तो य ओहिनाण जिणा;। चोदसदसनवपुब्बी, कप्पधर पकप्पधारीय ॥२२१॥ केवलमणपजवनाणिणोत्ति ज्ञानिशब्दः प्रत्येकमभि संबध्यते, केवलज्ञानिनो मनपर्यायज्ञानिनश्च ततस्तदनंतरमवधिज्ञानेन जिना अवधिज्ञानजिनाः, जिनशब्दो विशुद्धावधिप्रदर्शकः, विशुद्धावधिज्ञाना इत्यर्थः ॥ ततश्चतुर्दशपूर्विणो, दशपूर्विणो नव-* पूर्विणश्च इहासतां नवपूर्विणः, न परिपूर्ण नवपूर्वधराः, किंतु नवमस्य पूर्वस्य यत् तृतीयमाचारनामकं वस्तु तावन्मात्रधारिणोपि नवपूर्विणः, तथा कल्पधराः कन्पव्यवहारधारिणः प्रकन्पो निशीथाध्ययनं तद्धारिणः च शद्धोऽनुक्तसमुच्चयार्थः, तदेवानुक्तं च शब्देन सूचितं दर्शयति Fघेप्पंति चसदेणं, निज्जुत्तीसुत्तपेढियधराय । प्राणाधारण जीए होति पहुणो उ पच्छित्ते ॥ २२२ ॥ चशब्देन गृचंते नियुक्तिसूत्रपीठिकाधराः, तत्र नियुक्तिर्या भद्रबाहुस्वामिकृता, सूत्रपीठिका निशीथकल्पव्यवहारप्रथमपीठिका गाथारूपाः तथा आज्ञायां धारणे जीते च ये व्यवहारिण आज्ञाव्यवहारिणो धारणाव्यवहारिणो जीतव्यवहारिणश्च For Private and Personal Use Only
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy