________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेको झाष इत्येकस्ततोऽपनीतो जातमेकोनाशीतं शतमेकः स्थापनादिवसस्तत्र प्रक्षिप्तो जातमशीतं शत मागतमेकस्मात् स्था-1 पनीकृतान्मासात् एकदिनं गृहीतं, शेषेभ्यः षष्ठिमासेभ्यः एक दिनं झोपीकृत्य त्रीणि त्रीणि दिनानीति,
एवं खलु गनियाणं. गाहाणं होंति सोलस सहस्सा। सयमेगं च दलहियं. नायव्वं आणुपुबीए ॥२१८॥ ___एवमुक्तेन प्रकारेण गमिकानामुक्तरूपगमोक्तानां गाथानामानुपूर्व्या क्रमेण खलु निश्चितं भवंति ज्ञातव्यानि पोडश सहस्राणि शतमेकं च दशाधिकमिति, एतदुक्तं भवति, एकदिनां स्थापनाममुचता आरोपणायां यथोत्तरमकैकमारोपयता तावन्नेयं यावदेकोनाशीतदिनशता चरमारोपणा द्विदिनादिष्वपि स्थापनास्वेकादिकारोपणादि तावत् ज्ञेया, यावत् स्वस्वचरमा आरोपणा, एवं षोडश सहस्राणि गाथानां शतमेकं च दशोत्तरं पूरणीयमिति, एतासुच स्थापनारोपणासु मासकरणं कुर्वता एकादिषु चतुर्दिनपर्यतासु पंचभिर्भागमददानासु पंचदिनादिषु नवदिनपर्यतास्वशुध्यति, रूपद्विके दशदिनादिषु चतुर्दिनपर्यतासु रूपद्विकशुद्धौ जायमाने शून्ये मास एको गृहीतव्यः ।। एवं पंचदशदिनादिष्वप्येकोनविंशतिदिनपर्यतास्वेकोनविंशतिदिनादिषु चतुर्विशतिदिनपर्यतासु द्वौ मासावेवं सर्वत्र यावत् पंचकं न पूर्यते, तावत् पूर्व संख्याकान् मासान् ददता 'पंचके तु पूर्णे रूपमधिकं प्रक्षिपता भावनीयं, तदेवमुक्तं स्थापनासंचयद्वारमधुना राशिद्वारमाहअसमा हि ठाणा खलु सबला य परीसहा य मोहंमि। पलितोवम सागरोवम परमाणु ततो असंखेज्जा ॥२१९॥
एष प्रायश्चित्तराशिः कुत उत्पन्नः ? उच्यते, यानि खन्वसमाधिस्थानानि विंशतिः खलु शब्दः संभावने, स चैतत् संभा
१४
For Private and Personal Use Only