________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रस्य पीठिकाडस्नतः ।
॥ ७७॥
एवमुक्तेन प्रकारेण एतद्गमिका अनंतरोदितगमा गाथा आनुपूर्व्या क्रमेणान्या अपि भवंति ज्ञातव्याः कियन्संख्याका || द्वितीयो इत्याह. एतनानंतरोदितेन क्रमेण भवंति गाथानां षष्टशतानि त्रिंशानि. किमुक्तं भवति, पंचदिनां स्थापनाममुंचतारोपणायां च विभागः। यथोत्तरं पंच पंच प्रक्षिपता तावद् गंतव्यं, यावत् पंचत्रिंशत्तमा पंचसप्तत शतदिना आरोपणा पुनर्दशदिनां स्थापनां कृत्वा यथोक्तप्रकारेण तावन्नेयं यावच्चतुस्त्रिंशत्तमा सप्ततदिनशतारोपणा एवं स्थापनासु पंच पंच प्रक्षिपता आरोपणास्वेकैकमुपरितनं स्थान हापयता तावन्नयं यावत् गाथाना पदशतानि त्रिंशदधिकानि भवंति, तृतीय स्थापनारोपणास्थानं समाप्तः संप्रति चतुर्थ स्थापनारोपणास्थानं प्रतिपिपादयिषुरिदमाहः॥ अउणासीयं ठवणाण सयं आरोवणावि तह चेव ॥सोलस चेव सहस्सा दसोत्तरसयं च संवेहो ॥२१॥
चतुर्थे म्थाने एकोनाशीतं स्थापनानां स्थापनापदानां शतं भवति, आरोपणाया अपि तथैव ज्ञातव्यं, किमुक्तं भवति, आरोपणानामपि पदानां शतमेकोनाशीतं भवतीति, एतच्च प्रागेव भावितं, संप्रति संवेधपरिमाणमाह, स्थापनानामारोपणाभिः सह संबंधे संयोगाः षोडश सहस्राणि दशोत्तरं शतं १६११० भवंतीति एव संख्याकाश्च संवेधा गच्छोत्तरं संवग्गे इत्यादि करणवशादानेतव्यः । गच्छश्चात्र एकोनाशीतं शतं, तथाहि अशीतात् शतात् प्रथमस्थापना दिवस एकः प्रथमारोपणादिवस एक इत्युभयमीलने द्वौ शोधितौ, जातमष्टसप्ततं शतं तस्य चरमादेसभागेक्को इति वचनादेकेन भागो ड्रियत, लब्धमष्टसप्ततमेव शतं तत्र रूपं प्रक्षिप्तं जातमेकोनाशीतशतं उत्तरमेक आदिरप्येकस्तत्र गच्छ एकोनाशीतशतलक्षण उत्तरेणकेन गुण्यते. जातं तदेव एकोनाशीतं शनं तदेकेन हीनं क्रियते, जातमष्टसप्ततं शतं, तत्रादिमेकं प्रक्षिपेत् , भूयस्तदेवाभूदेकोनाशीतं शत मेतदंति- |७७॥
For Private and Personal Use Only