________________
Shri Mahavir Jain Aradhana Kendra
******084404****
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीय स्थाने पंचत्रिंशत् स्थापनापदानि पंचत्रिंशच्चारोपणायाः स्थानानि पदानि एतदपि पूर्वमेव भावितं संप्रति संवेधपरिमाणमाह. ।। ठवणाणमित्यादि स्थापनानामारोपणाभिः सह संवेधाः सर्वसंख्यया भवति, षट्शतानि त्रिंशानि ६३० ॥ एतानि च गच्छोत्तर संवग्गो इत्यादि करणवशादानेतव्यानि तत्रगच्छः पंचत्रिंशत् कथमिति चेदुच्यते, ठवणारोवणविजुयाइत्यादि करणवशात् तथाहि अशीतात् शताद पंच दिनानि प्रथमास्थापनायाः पंच दिनानि प्रथमारोपणाया उभयमीलने दश शोध्यंते, जातं सप्ततं शतं १७० तस्य पंचभिर्भागां हियते लब्धा चतुस्त्रिंशत् सा रूपयुता क्रियते, आगतः पंचत्रिंशत् गच्छः उत्तरमेक आदिरप्येकः ततः पंचत्रिंशदेकेन गुण्यते, एकेन गुणितं तदेव भवतीति जाता पंचत्रिंशदेव सा उत्तरेणैकेन हीना क्रियते, जाता चतुस्त्रिंशत् तत्रादिमेकं प्रक्षिपेत् भूयोऽभवत्पंचत्रिंशत् एतदंतिमधनमंतिकस्थाने परिमाणं एतत् आदियुतं क्रियते, जाता षट्त्रिंशत् गच्छार्धेन गुणयितव्या, तत्र गच्छराशिर्विषमत्वात् परिपूर्ण अर्ध न ददातीति षट्त्रिंशदद्धक्रियते जाता अष्टादश शेते गच्छेन परिपूर्णेन गुण्यते जातानि षट्शतानि त्रिंशदधिकानि संप्रत्यस्मिन् तृतीये स्थाने कियदिना प्रथमा स्थापना कियद्दिना च प्रथमारोपणा सा च स्थापनारोपणा च कियद्भिः संचयमासैः प्रतिसेवितै- निष्पन्नेत्येतदभिधित्सुराह ॥
पढमा ठवणा पंच उ. पढमा श्रारोवणा भवे पंच । छत्तीसा मासेहिं एसा पढमा भवे कसिणा ॥ २९०॥
तृतीये स्थाने प्रथमा स्थापना पंच पंचदिनप्रमाणा प्रथमा आरोपणा भवति पंच पंचदिना एषा स्थापना आरोपणा च निष्पन्ना षट्त्रिंशता मासैः प्रतिमेवितैः कथमिति चेदुच्यते, अशीतात् शतात् पंच स्थापनादिवसाः पंच आरोपणादिवसाः
For Private and Personal Use Only
-10-10K+-***-*-*+KX Xk