________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
*
पढमा ठवणा पक्खो, वितीया आरोवणाया भवे दसेउ॥ अटारसमासेहिं पंचयराइंदिया झोसो ॥२०६॥ *
द्वितीय स्थाने प्रथमा स्थापना पक्षो द्वितीया चारोपणा देशदशदिना भवंति. एषा च स्थापना आरोपणा च अष्टादशमासैः प्रतिसेवितैर्निष्पन्ना, तथाहि अशीतात् दिनशतात् स्थापनादिवसाः पंचदश आरोपणादिवसा दश उभयमीलने पंचविंशतिः शोध्यंते, जातं पंचपंचाशतं शतं १५५॥ ततोधिकृतया दशदिनया रोपणया भागो ह्रियते तत्र शुद्धो भागो न शुद्धयति, पंचसु प्रक्षिप्तेसु शुद्ध्यतीति, पंचकोत्र झोषः तथाचाह-पंचरात्रिंदिवानि झोष इति लब्धाः पोडशमासाः स्थापनायां च प्रागुक्तप्रकारेणैको माम आरोपणायास्तु दशदिनात्मिकायाः पंचभिर्भागो हियते, लब्धौ द्वौ तौ रूपहीनौ कृती, जातं शून्यं, लब्ध एको मासः, जइबादुरूवहीणे कयम्मि होजा जहिं तु आगास, तत्थवि एगो मासो इति वचनात् तौ द्वावपि मासौ पूर्वराशौ प्रक्षिप्येते, आगतमष्टादश मासाः प्रतिसेविताः। अथ कुतो मासात् किं गृहीतं ? उच्यते षोडशमासेभ्यो दश दशरात्रिंदिवानि, पंच झोषीकृतानि स्थापनामासात् पंचदश आरोपणामासाद्दशकप्रत्यय इति उच्यते, षोडश दशभिर्गुणितो जातं षष्टं शतं १६० ॥ पंच झोषीकृतास्ततः शोध्यंते, जातं पंचपंचाशं शतं, ततः स्थापनादिवसाः पंचदश आरोपणादिवसा दश उभयमीलने पंचविंशतिः प्रक्षिप्यंते जातमशीतं शतं । पढमा ठवणा पक्वो. तइया आरोषणा भवे पक्खो।। बारसहिं मासेहिं एसा विइया भवे कसिणा ॥२०७॥
द्वितीय स्थाने प्रथमास्थापना पक्षस्तृतीया चारोपणा भवति पक्षः एषा स्थापना आरोपणा च द्वादशभिर्मासैनिष्पन्ना,
For Private and Personal Use Only