________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
न
अस्या व्याख्या-परमां मासानां समाहारः षण्मासं, तस्मात् षण्मासात् स्थापनारोपणदिवसविरहितात् तदनंतरं पंचभागसक्तात् ये लब्धास्ते रूपयुताः मंतो यावंतो भवंति, एतावंति स्थापनापदानि एतावान् तत्र गच्छ इति भावः, एतच्च त्रिष्वायेषु स्थानेषु द्रष्टव्यं, चरमेपि स्थाने एष एवादेशः, केवलमेकेन भागो हर्त्तव्यः, एष गाथाक्षरार्थः भार्वार्थस्त्वयं प्रथम स्थाने प्रथमा स्थापना विंशतिदिना प्रथमा चारोपणा पंचदशदिना उभयमीलने दिनानि पंचत्रिंशत्तानि षण्मास| दिवमेभ्योऽशीतशतप्रमाणेभ्यः शोध्यंते. जातं पंचचत्वारिंशंशतं, तस्य पंचभिर्भागो ह्रियते, लब्धा एकोनत्रिंशत् सा रूपयुता क्रियते, जाता त्रिंशत् आगतं प्रथम स्थाने त्रिंशत् गच्छः, तथा द्वितीय स्थाने प्रथमा स्थापना पंचदशदिना प्रथमा चारोपणा पंचदिना उभयमीलने जातानि दिनानि विंशतिः, षण्मामदिवसेभ्यो अशीतशतप्रमाणेभ्यः शोध्यंते, जातं पष्टिशतं १६० ॥ तस्य पंचभिर्भागो हियते, लब्धा द्वात्रिंशत् सा रूपयुता क्रियते, जाता त्रयस्त्रिंशत् , आगतं द्वितीय स्थाने | त्रयस्त्रिंशत् गच्छः. उत्तरमेकः आदिरप्येकः अत्र भावना प्रागुक्तानुसतव्याः, तत्र गच्छस्त्रयस्त्रिंशत् एकेन गुण्यते, एकेन गुणितं तदेव भवतीति जातात्रयस्त्रिंशदेवसा उत्तरेणैकेन हीना क्रियते, जाता द्वात्रिंशत् तत्रादिममेककलक्षणं प्रक्षिपेत् जाता | भूयस्त्रयस्त्रिंशत् एतदंतिमं धनं, एतच्चांतिम धनमादिना एककेन युतं क्रियते, जाता चतुस्त्रिंशत् , सा गच्छार्धेन गुणयितव्या, तत्र गच्छराशेविषमत्वात् परिपूर्णमधं न लभ्यते इति चतुस्त्रिंशदर्ध क्रियते, जाता सप्तदश, ते गच्छेन परिपूर्णेन गुण्यंते, जातानि पंचशतान्येकषष्टानि ५६१ ॥ संप्रत्यस्मिन् द्वितीये स्थाने कतिदिना प्रथमा स्थापना कतिदिना च प्रथमारोपणा सा | च प्रथमा स्थापनारोपणा च कतिभिः संचयमासैः प्रतिसेवितैर्निष्पन्नत्येतत् प्रतिपादयति,
For Private and Personal Use Only