________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kailassagarsuri Gyarmandie
द्वितीयो विभागः।
श्री व्यवहारसूत्रस्य पीठिकाsनंतरः।
॥७३॥
भागाः कर्त्तव्याः, तत्र प्रथमो भागः पंचदशभिर्गुणयितव्यः, शेषाः सर्वे पंचभिर्गुणनीयाः एते सर्वेपि दिवसा एकत्र मीलयितव्याः; यश्चझोषः प्रक्षिप्तः स शोधयितव्यः ततः स्थापनादिवसाः प्रक्षेपणीयाः; आगतफलमप्येवं कथनीयं, यतिभिदिवसः स्थापनामासो निष्पन्नस्ततिदिवसाः स्थापनीकृतेभ्यो मासेभ्यः प्रत्येकं गृहीता यावंतश्च मासाः पंचदशभिर्गुणितास्तावद्भ्यः पंचदशशेषेभ्यः पंच पंचेति एवं पंचविंशिकायामपि स्थापनायां पाक्षिक्यादय आरोपणा द्रष्टव्याः, यावच्चरमा पंचपंचाशद्दिनशतमाना त्रिंशत्कायां स्थापनायां पाक्षिक्यादय आरोपणा यावत् पंचाशद्दिनशतमाना एवं तावत् यावच्चरमायां स्थापनायां पंचपष्टिदिनशतमानायां पाक्षिक्येकारोपणा एतासु च पूर्वभणितेन प्रकारेण चत्वारिंशतानि पंचषष्टाधिकानि गाथानां कर्त्तव्यानीति प्रथमं स्थापनारोपणास्थानं समाप्तं ।। संप्रति द्वितीयं स्थापनारोपणास्थानं प्रतिपिपादयिषुरिदमाह ।। तेत्तिसं ठवणपया तेत्तीसारोवणाए ठाणाई: ठवणाणं संवेहो, पंचेव सयाउ एगट्रा ॥ २०३ ॥
द्वितीय स्थाने त्रयस्त्रिंशत् स्थापनापदानि, त्रयस्त्रिंशच्चारोपणायाः स्थापनापदानि एतच्च प्रागेव भावितमिति न भूयो भाव्यते, संप्रति संवेधपरिमाणमाह, ठवणाणमित्यादि स्थापनानामारोपणाभिः सह संवेधाः सर्वसंख्यया भवति, पंचशतान्येकषष्टानि एकषष्टयधिकानि ॥ ५६१ ।। कथमेतदवसातव्यमिति चेदुच्यते, इह संवेधसंख्यानयनाय प्रागुक्ता गच्छोत्तरसोबग्गे इत्यादि करणगाथा गच्छश्चात्र त्रयस्त्रिंशत् तथाच गच्छानयनाय पूर्वसरिप्रदर्शितेयं करणगाथा, ठवणारोवणविजुया छम्मासा पंचभागभइया जे॥रूवजुया ठवणपया तिस चरिमा देसभागेको॥२०॥
॥७३॥
For Private and Personal Use Only