________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
...
शतं १६० ।। ततः पाक्षिक्यामारोपणायां संचयमासा ज्ञातुमिष्टा इति, पंचदशभिर्भागो द्रियते, स्थिताः शेषा दश अधस्ताच्छेदः पंचदश, तेभ्यो दश विश्लिष्यंते, स्थिताः पंच आगतं पंचदशिक्यामकृत्स्नारोपणायां पंचको झोषः, तथा अशीतिशता स्थापनादिवसा विंशतिः शोभ्यते, जातं षष्टं शतं १६० ॥ ततः पंचविंशतिदिनाया आरोपणायाः संचयमासा ज्ञातुमिष्टा इति, पंचविंशत्या भागो हियते, तथा शेषा । दश छेदोऽधस्तान पंचविंशतिस्तस्या दश विश्लिष्यंते, स्थिताः पंचदश
आगतं पंच विंशतिदिनायामारोपणायां पचो झोषः, एवं सर्वत्र भावनीयं; जत्थ पुण देइ सुद्धं, भागंारोवणाउ साकसिणा॥दोण्हपि गुणसु लद्धं इच्छियरुवणाए जइ मासा॥१८॥
यस्यां पुनरारोपणायामुपरितनो राशिः शुद्धं भागं प्रयच्छति, न किंचित् पश्चाद्यस्यावतिष्ठते, इति भावः सा आरोपणा कृत्स्ना भागहरणात् कृत्स्नेति प्रतिपत्तव्या, यथा विंशतिदिना, तथाहि केनापि पृष्टं विंशिका स्थापना विशिका चारोपणा कतिभिर्मासैः प्रतिसेवितैर्निष्पन्ना? उच्यते, अष्टादशभिर्मासैः, कथमेतदवसेयमिति चेत् ? उच्यते, षण्णां मासानामशीतं दिवसशतं, तेभ्यो विंशतिर्दिनानि, स्थापनाया विंशतिदिनान्यारोपणायाः शोध्यंते, जातं शेषं चत्वारिंशंशतं, तत इच्छियरुवणाए भए इति वचनात् , विशिकया आरोपणया भागो दियते, भागे च दृते उपरितनो राशिर्निर्लेपः, शुद्ध एषा कृत्स्नारोपणा लब्धाः सप्तमासाः, ततो दोण्डंपि गुणसुलद्धं इच्छियरुवणाए जइ मासा इति, वक्ष्यमाणवचनात् इयमारोपणा प्रागुक्तक्रमेण द्वाभ्यां मासाभ्यां निष्पन्नेति सप्तमासा द्वाभ्यां गुण्यंते, जाताश्चतुर्दशमासाः, ततो द्वौस्थापनामासौ चारोपणामासाविति समुदिताश्चत्वारः ते चतुर्दशसु प्रक्षिप्यंते, आगतं विशिका स्थापना विंशिका चारोपणा अष्टादशभिर्मा
For Private and Personal Use Only