________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयो
थी व्यवहारसूत्रस्य पीठिकानंतरः।
तिसृणामाद्यानां स्थापनानां तिसृणामाद्यानामारोपणानां च पदचिंतायामुत्तरं पंच पंच विज्ञेयाः तिसृष्वपि पदानां यथोत्तरं पंचोत्तरवृद्ध्या प्रवर्धमानत्वात् , एका चतुर्थीप्रारोपणा एकोत्तरवृद्ध्या प्रवर्धमाना ततस्तत्रोत्तरमेर्क जानीयात, सर्वसंख्य विभागः। या च सर्वा अपि स्थापनारोपणा अष्टौ भवंति, चतस्रः स्थापनाश्चतस्र प्रारोपणा इत्यर्थः ।। संप्रति करणवशात् यल्लब्धं पदपरिमाणं तत् दर्शयति ॥
तीसा तेत्तीसावि य पणतीसा अउगासीयसयमेव । एए ठवणाण पया, एवइया चेव रुवणाणं ॥१८५॥ ___एतानि च तिसृणामपि स्थापनानां यथाक्रमं पदानि तद्यथा, प्रथमायास्त्रिंशत् द्वितीयायास्त्रयस्त्रिंशत , तृतीयायाः पंचत्रिंशत, चतुर्थ्या एकोनाशीतं शतं, एतावत्येव चतसृणामप्यारोपणानां यथाक्रमं पदानि तद्यथा प्रथमायात्रिंशत द्वितीयस्याः त्रयस्त्रिंशत् तृतीयस्याः पंचत्रिंशत् चतुथ्यो एकोनाशीतं शतमिति, अथ का स्थापना का आरोपणा च कतिषु मासेषु प्रतिसेवितेषु द्रष्टव्येत्येतत्परिज्ञानार्थमाह ॥ | ठवणा रोवणा दिवसे माणाउ विसोहइत्तुजं सेसं। इच्छियरुवणाए भए असुज्झमाणे खिवइ ज्झोसं ॥१८६॥
मानात् षण्णां मासानां दिवसपरिमाणादशीत्याधिकशतरूपात् विवक्षितायाः स्थापनाया विवक्षितायाश्चारोपणाया ये दिवसास्तान् विशोधयेत् , विशाध्य च यच्छेषमुपलभ्यते, तत् इप्सितया अधिकृतया यस्या दिवसाः पूर्व विशोधितास्तयाइत्यर्थः ।। आरोपणयाभजेद् भागं छियात भागे च दृते यदि राशिनिलेपः शुध्यति, ततोन किमपि प्रक्षिप्यते, केवलं सा *॥६६॥
For Private and Personal use only