________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आहच्च कारणंमि, सेवंतो अजयणं सिया कुजा, एसोवि होइ भावे, किं पुण जयणाए सेवंतो॥भा२१॥
आहच कदाचित् अनया गत्या कारणे अशिवादिलक्षणे अकृत्यं सेवमानः स्यात्कदाचित् अयतनां कुर्यात् अयतनया प्रतिसेवेतेतिभावः एषोपि भगवद्वचनाद्भवति भावे व्यवहर्त्तव्य किं पुनर्यतनयाप्रतिसेवमानः प्रथमभंगवर्ती ससुतरांभवेद्भावेव्य
वहतव्य इत्यर्थः, न तु केवलं प्रथमभंगवर्ती वा भगवद्वचनाद् भाव व्यवहर्तव्यः, किंतु तृतीयभंगवयपि तथा चाह ॥छ ! * पडिसेवियंनि सोहि काहं आलंबणं कुणइ जो उ, सेवंतोवि अकिच्चं, ववहरियव्वो स खलु भावे॥भा२२॥
कारणमंतरेणापि यतनया प्रतिसेविते अकृत्ये पश्चात् शोधि प्रायश्चित्तमहं करिष्यामीत्येवंरूपमालंबनं यः करोति, किमुक्तं भवति, एवंरूपेणालंबनेनाकृत्ये यः प्रवृत्तिं चिकीर्षति, सतथा रुपमालंबनं कृत्वा प्रतिसेवमानो ऽप्य कृत्यं खलु निश्चितं भावे व्यवहर्त्तव्यः अंत:करणविशुद्धिपुरस्सरं यतनया प्रवर्तमानत्वेन भावतो व्यवहारयोग्यत्वात् । किमुक्तं भवति ? अकारणे यतनयेति तृतीयभंगवत्यपि भगवद्वचनाद्य व्यवहर्तव्यो वेदितव्य इति, तदेवं चतुभगिकायामाद्यभंगत्रयवर्तिनो भावव्यवहतव्या उक्ताः संप्रति चतुर्भगिकामनपेक्ष्यान्यथैव भावव्यवहर्तव्यलक्षणमाह अहवा कज्जाकजे जताजतो वावि सेविडं साह, सम्भावसमाउद्दो, ववहरियव्वो हवइ भावे ॥भा२३ ॥
अथवेति प्रकारांतरे तच्च प्रकारांतरमिदं प्राक्चतुर्भगिका प्ररूप्य भावव्यवहर्त्तव्या उक्ताः संप्रति तु तामनपेक्ष्यैव भावव्यवहर्त्तव्योऽभिधीयते, कथमितिचेदत आह, कजाकज कार्यशिवादिनिस्तरणलक्षणे प्रयोजने अकार्ये तथाविधपुष्ट
For Private and Personal use only