________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रस्य ।
प्रयोजनाभावे जयाजयोवेति यतमानो वा अयतमानो वा साधुरकृत्यं सेवित्वा सद्भावे पुनरकरणलक्षणया तात्विक्या वृत्या- पीठिका समावृत्तोऽकृत्यकरणात् प्रत्यावृत्तः सन् गुरोः समीपे यः आलोचयतीतिशेषः, स भावे भवति व्यवहर्त्तव्यः, भावतोऽकृत्यकरणतः प्रत्यावृतत्वात् संप्रति प्राक्प्ररूपितायां चतुर्भगिकायां यश्चतुर्थो भंगस्तत्प्ररुपणार्थमाह ॥ निकारणं पडिसेवी कज्जे निद्धंधसो अणवेक्रवो; देसं वा सव्वं वा गुहिस्सं दव्वओएसे भा२४॥
यो निष्कारणे कारणमंतरेण प्रतिसेवी, अकृत्यप्रतिसेवनशीलः, कजेनि«धसोचि अत्र अपिशब्दोऽनुक्तोऽपि गम्यते सामर्थ्यात् , ततोऽयमर्थः कार्येऽपि तथाविधे समुत्पन्ने निर्बुधसो देशीवचनमेतत् अकृत्यं प्रतिसेवमानोनारंभाधिकतारंभविराध्यमान प्राण्यनुकंपा पर इत्यर्थः च समुच्चये स च भिन्नक्रमोऽनपेक्षश्चेत्येवं योजनीयः न विद्यतेऽपेक्षा वैरानुबंधो मे विराध्यमान जंतुभिः सह भविष्यति संसारो वा दीर्घतर इत्येवरूपा यस्याऽसावनपेक्षः हा दुष्टुकृतं मयेति पश्चादनुतापरहितइतिभावः तथा यः प्रतिसेवित्वादेशं गृहयिष्यामि किंचिन् मात्रमालोचयिष्यामि न सर्वमिति भावः सव्ववत्ति सर्व वा गृहयिष्यामि न किंचिदालोचयिष्यामीत्यर्थ इति चिंतयति. चिंतयित्वा च तथैव करोति एष द्रव्यतो व्यवहर्तव्यो वेदितव्यः किंवानेत्यत आह ॥
सो वि हु क्वहरियव्यो, अणवत्थावारणं तदन्नेय घडगारतुल्सीलो अणुवरओसन्नमझत्ति ॥भा २५॥ ___ सोऽप्यनंतरोक्तस्वरुपो द्रव्यव्यवहर्त्तव्यो, व्यवहर्तव्यमेव किं कारणमत आह, अणवत्था वारणंतदन्नेय इति तस्मिन् व्यवहियमाणे अनवस्थावारणं भवति, तदन्ये च निषिद्धा जायते किमुक्तं भवति सोप्यनवस्थाया मा पुनरकृत्यं कार्षीत् , तदन्ये ||॥ १२ ॥
For Private and Personal Use Only