________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
श्री व्यवहारसूत्रस्य
पीठिका
॥११॥
प्रतिसेवते इत्येवं शीलं कारणप्रतिसेवी, तहय आहच्चेति तथा चेति समुच्चये कारणेप्यकृत्यप्रतिसेवी, न यदा तदावा, किंतु आहच्च कदाचित् अन्यथा कदाचित् अन्यथा वादीर्घसंयमस्फातिमनुपलक्षमाणो अथवा आहचेति कदाचिदकारणे पि प्रतिसेवी पियधम्मे य बहुसुए इति आयंतयोग्रहणे मध्यस्यापि ग्रहणमिति न्यायात् प्रियधर्मा दृढधा संविग्नोऽवद्यमीरुः सूत्रार्थ त दुभयविद इत्यपि दृष्टव्यं, एते सर्वेऽपि व्यवहर्त्तव्या, विइयंति अत्र द्वितियं मतांतरं केचिदाहुरवक्रादीनामपि प्रतिपक्षा व्यवहर्त्तव्या इति, उवदेस पच्छित्तं इह द्विविधः साधु गीतार्थोऽगीतार्थश्च तत्रयोगीतार्थ स गीतार्थत्वादेवानाभाव्यं न गृह्णातीति न तस्योपदेशः यः पुनरगीतार्थस्तस्यानाभाव्यं गृह्यत उपदेशो दीयते, यथा न युक्तं तवानाभवात् गृहीतुं यदि पुनरनाभवत् ग्रहीष्यसि, ततस्तनिमित्तं प्रायश्चित्तं भविष्यतीत्युपदेशदानं, तत एवमुपदेशे दत्ते सति दानप्रायश्चित्तं दीयते इति गाथासमासार्थः, अत्र शिष्यः प्राह कारणप्रतिसेवी भावव्यवहर्तव्य उक्तः स कथमुपपद्यते, प्रतिषिद्धं हि यतनयापि सेवमानो जिनाज्ञाप्रद्वेषकारी ननु स दुष्टभाव इति कथं भावव्यवहर्तव्यः ? नैप दोषो, जिनाज्ञाप्रद्वेषकारित्वाभावात् सतिकारणे प्रतिसेवायामपि वर्तते, जिनाज्ञामवलंब्यैव यथास्यामवस्थायां दीर्घसंयमस्फातिनिमित्तमकृत्यप्रतिसेवायामपि प्रवर्तितव्यमिति, ततो न कश्चिदोषः, अपि च भगवंतो वीतरागा न मिथ्या कदाचनापि ब्रुवते, वीतरागतया तेषां मिथ्यावचन कारणाभावात् ; ' उक्तंच रागाद्वा द्वेपाद्वा मोहाद्वावाक्यमुच्यते घनृतम्, यस्य तु नैते दोषास्तस्याऽनृतकारणंकिं स्यात् ॥ १॥ भगवता वा यतनयापि कारणे प्रतिसेविनो भावव्यवहत्तेव्या उक्तास्तद्यदि भगवद्चनाद् द्वितीयभंगवर्तिनोपि भावव्यवहतंव्यास्ततः प्रथमभंगवर्तिनः सुतरां भावव्यवहर्तव्या भवेयुः तथा चाह ।।
॥११॥
For Private and Personal Use Only