SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विवक्षायामेकवचनं, ततोऽयमर्थः त एव जातमृतकसूतकादिनियंढादय रूजवः संतो यदासम्यगालोचयंति, तदा भावे भावविषया लौकिका व्यवहर्तव्या भवंति उक्ता लौकिकद्रव्यभावव्यवहर्तव्याः, संप्रति लोकोत्तरिकद्रव्यभावव्यवहर्तव्यप्रतिपादनार्थमाह ॥छ।। परपच्चएण सोही दव्वुत्तरिओ उ होइएमादी, गीतो व अगीतो वा सब्भावउवट्ठिओ भावे भा१९॥ यस्य शोधिः परप्रत्ययेन परप्राचार्यादिकः स एव प्रत्ययः कारणं तदा परप्रत्ययस्तेन किमुक्तं भवति, नूनमहं प्रतिसेवमान आचार्येण उपाध्यायेनाऽन्येन वा साधुना ज्ञातोऽस्मि, ततः सम्यगालोचयामीत्येवं परप्रत्ययेन यस्य शोधिप्रतिपत्तिरेवमादिशब्दात् यो गुरुदोषं सेवित्वा अल्पं कथयति, स्वकृतं चान्यकृतं ब्रवीति तदादिपरिग्रहः, लोकोत्तरिको द्रव्य- | व्यवहर्तव्यो भवति. भावे भावविषयः पुनः लोकोत्तरिको व्यवहर्तव्यो गीतो वा गीतार्थो वा अगीतो वेति अगीतार्थो वा प्रायश्चित्तप्रतिपत्यर्थ सद्भावेनोपस्थितः स च वक्ष्यमाणगुणैरुपेतः सन् भवतीति, तानेव गुणानुपदर्शयति अवंके अकुटिले याविकारणपडिसेवि तहय आहच्च, पियधम्मे य बहसुए, बिइयं उवदेसि पच्छित्तं भा२०॥ वक्रोसंयतो, न वक्रोऽवक्र:, संयतो विरत इत्यर्थः, अकुटिलो अमायी चशब्दादक्रोधी अमानी अलोभीश्चेतिपरिग्रहः, अपि पदार्थसंभावने, सचामून् पदार्थान् संभावयति, कारणे समापतिते सति नामको यतनया प्रतिसेवते इत्येको भंगः, १॥ कारणे अयतनयेति द्वितीयः, अकारणेयतनयेति तृतीयः, अकारणेऽयतनयेति चतुर्थः, अत्र प्रथमभंगशुद्ध इति तत्प्रतिपादनार्थमाह ।। कारणप्रतिसेवीकारणे अशिवादिलक्षणे विशुद्धेनालंबनेन बहुशो विचार्य शुल्कादिपरिशुद्धलाभाकांक्षिवणिग्दृष्टतिनाकृत्यं यतनया For Private and Personal Use Only
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy