________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयो विभाग:
श्रीध्यवइशरस्त्रस्यपीठिकाsनंतरः।
स्यादानात् ॥ तथा पंचविंशतिदिनायाः किलोत्कृष्टा आरोपणा ज्ञातु मिष्टा ततोऽशीत्यधिकशतात् पंचविंशतिः शोध्यते जातं पंचपंचाशदधिकं शतं एषा पंचविंशदिनायाः स्थापनाया उत्कृष्टा आरोपणा, एवं सर्वत्र भावनीयं, सांप्रतमारोपणास्थाने उत्कृष्टस्थापनापरिज्ञानार्थमाह ।। आरोवणा उद्दिटा, छम्मासा ऊणगा भवे ताए । श्रारोवणाए तीसे, ठवणा उक्कोसिया होड ॥१७९॥
आरोवणा उद्दिठा या आरोपणा उदिष्टा स्थापना किल ज्ञातुमिष्टेति भावः, तया षण्मासा ऊनकाः क्रियन्ते, सा षण्मासदिवसेभ्यः शोध्यते इत्यर्थः, ततो यच्छेषमवतिष्ठते, तत्तस्या ईप्सिताया आरोपणाया उत्कृष्टा स्थापना भवति, यथा पंचदशदिनायाः आरोपणाया उत्कृष्टा स्थापना ज्ञातुमिष्टा, ततः पंचदश अशीत्यधिकशतादपनीयंते, जातं पंचषष्ठयधिकं शतं तावत्प्रमाणा पंचदशदिनाया, आरोपणाया उत्कृष्टा स्थापना भवति, तथा विंशतिदिनाया आरोपणाया उत्कृष्टा स्थापना किल ज्ञातुमिष्टेति, विंशतिरशीत्यधिकशतादपनीयते, जातं षष्ठयधिकशतं एतावती विंशतिदिनाया आरोपणाया उत्कृष्टा स्थापना, एवं सर्वत्रापि भावनीय, सांप्रतं प्रथम स्थाने कियंति स्थापनास्थानानि कियंत्यारोपणास्थानानि कियंतो वा स्थापनारोपणास्थानानां संवेधतः संयोगा इत्येत्प्ररूपणार्थमाह ॥ तीसं ठवणाठाणा तीसं यारोवणाए ठाणाई। ठवणाणं संवेहो चत्तारिसयाउ पण्णठा ॥ १८० ॥
प्रथमे स्थाने त्रिंशत् स्थापनास्थानानि, त्रिंशचारोपणायाः स्थानानि, एतच्च प्रागेवानेकशो भावितमिति न भूयो भाव्यते,
॥६४॥
For Private and Personal Use Only