________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ठवणाणमित्यादि स्थापनानामारोपणाभिः सह संवेधाः संयोगाः सर्वसंख्ययाः चत्वारि शतानि पंचषष्ठानि भवंति; ४६५ ॥ तथाहि प्रथमे विंशतिदिनरूपे स्थापनास्थाने त्रिंशदारोपणास्थानानि, द्वितीये पंचविंशतिदिनरूपे एकोनत्रिंशत तृतीयेऽष्टाविंशतिरेवमेकैकरूपहान्या तावद्वक्तव्यं, यावत् पंचषष्टिदिनशतरूपे त्रिंशत्तमे स्थापनास्थाने एकमारोपणास्थानमेतानि च सर्वाण्यप्येकत्र लिखितानि, यथोक्तसंख्याकानि भवंतिः स्थापनाग्रहणे चारोपणापि गृह्यते; अनयोः परस्परसंवेधात्, तत एतदपि द्रष्टव्यमारोपणास्थानानां स्थापनाभिः सह संवेधाः, सर्वसंख्यया चत्वारि शतानि पंचषष्टीनि भवंति; तथाहि प्रथमे पंचदशदिनरूपे आरोपणास्थाने त्रिंशत् स्थापनास्थानानि, द्वितीये विंशतिदिनरूपे एकोनत्रिंशत्, तृतीयेऽष्टाविंशतिरेवमेकैकरूपहान्या तावत् वक्तव्यं यावत् षष्ठिदिनशतप्रमाणे त्रिंशत्तमे आरोपणास्थाने एकविंशतिदिनं स्थापनास्थानमेतच्चसर्व प्रागेव सप्रपंचं भावितमेतानि च सर्वाण्यप्येकत्र मिलितानि यथोक्तसंख्याकानि भवंति, यथोक्तसंवेधसंख्यापरिज्ञानार्थमेव करणगाथामाह । गच्छत्तरसंवग्गो, उत्तरहीणंमि पक्खिवे आई। अंतिमधणमादिजुयं, गच्छद्धगुणं तु सव्वघणं ॥१८॥
इह यद्यपि प्रथम स्थाने त्रिंशदारोपणास्थानानि, द्वितीये एकोनत्रिंशत् तृतीये अष्टाविंशतिरिति क्रमस्तस्तथापि संकलनायां यथोत्तरमंका निवेश्यते, इत्येकद्विव्यादिक्रमः, तत्र गच्छः त्रिंशत् त्रिंशतोऽकस्थानानां भावादुत्तरमेकं, एकोत्तराया वृद्धर्भा| वात् , आदिरप्येकं सर्वांकस्थानानामादावेकस्य भावात् गच्छस्य त्रिंशत् उत्तरेण एकेन संवर्गो गुणनं, गच्छोत्तरसंवर्गस्तस्मिन् किमुक्तं भवतिः त्रिंशदेकेन गुण्यते, एकेन च गुणितं तदेव भवतीति जाता त्रिंशदेव, तत्र उत्तरहीणमिति उत्तरेणकेन हीनं, तस्मिन् कृते एकेन हीना त्रिंशत् क्रियते इत्यर्थः, जाताएकोनत्रिंशत् ततः प्रक्षिपेदादिममेकं जाता भूयस्त्रिंशत् एतदंतिमधन
For Private and Personal Use Only