SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिवर्धयता तावद्गंतव्यं यावदेकोनाशीत्यधिकदिनशतमानी सर्वोत्कृष्टा एकोनाशीतिदिनशततमा स्थापना, श्रस्यामेकोनाशीत्यधिकशतसंख्यानिस्थापनास्थानानि, तथा द्विदिनायामारोपणायां जधन्या स्थापना एकदिना, ततोऽन्या द्विदिना मध्यमा, ततोऽन्या त्रिदिना एवं द्विदिनामारोपणाममुंचता एकैकं परिवर्धयता तावद्गंतव्यं यावदृष्टसप्तत्यधिकदिनशतमाना सर्वोत्कृष्टा अष्टसप्ततिशतमाना स्थापना अस्यामष्टसप्ततिप्रमाणानि स्थापनास्थानानि, कारणं प्रागुक्तमनुसर्त्तव्यं, एवमुत्तरोत्तरारोपणास्थानसंक्रांतावंतिममंतिमं स्थानं परिहरता तावद्गंतव्यं यावदेकोनाशीत्यधिकशततमायामारोपणायामेकैव जघन्या एकदिना स्थापनेति, इह एकैकस्मिन् स्थापनास्थाने आरोपणा जघन्या मध्यमा उत्कृष्टा च प्रतिपादिता, ततः सांप्रतमुत्कृष्टारोपणापरिज्ञानार्थमाह ॥ जो ठणा उद्दिट्ठा, छम्मासा ऊणिया भवे ताए । थारोवण उक्कोसा तीसे ठवणाए नायव्वा ॥ १७८ ॥ षष्पां मासानामशीतदिवसशतं भवति, तत् स्थापयित्वा १८० या स्थापना उदिष्टेति, यस्याः स्थापनायाः उत्कृष्टा आरोपणा ज्ञातुमिष्टा सा उदिष्टेत्यभिधीयते, उद्दिष्टा ईप्सिता, इत्यनर्थांतरं तया षण्मासाः षण्मासदिवसा ऊनकाः क्रियंते, किमुक्तं भवति तामुद्दिष्टां स्थापनां पण्मासादिवसेभ्यो अशीत्यधिकशतप्रमाणेभ्यः शोधयेत्, ततो यच्छेषमवतिष्ठते, तत्तस्याः ईप्सितायाः स्थापनाया उत्कृष्टा आरोपणा भवति ज्ञातव्या० ॥ यथा विंशतिदिनायाः स्थापनाया उत्कृष्टा आरोपणा ज्ञातुमिष्टा, ततो विंशतिरशीत्यधिकशतात् षण्मासदिवससंख्याभूतात् शोध्यते, जातं षष्ठयधिकं शतं, एषा विंशिकायाः स्थापनाया उत्कृष्टा आरोपणा, ततः परमारोपणाया असंभवात् विंशत्या सह षण्ष्यां मासानां परिपूर्णानां भावात्, षण्मासाधिकस्य च प्रायश्चित्त For Private and Personal Use Only **************************
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy