________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयो विभागः।
श्री व्यव- एवमुत्तरीत्तरारोपणास्थानसंक्रांतावंतिममंतिम स्थानं परिहरता तावन्नेयं, यावत् पंचसप्ततिदिनशतमानायां पंचत्रिंशत्तमायामाहारपत्रस्य । रोपणायामकैव जघन्या पंचदिना स्थापनेति, चतुर्थे स्थाने स्थापनास्थाने आरोपणास्थाने च न पंचकवृद्धिर्नापि पंचकापकृष्टिः, पीठिका किंतु वृद्धिर्हानिर्वा एकोत्तरा, ततो यद्यपि तद्भावना अधिकृतगाथाक्षराननुयायिनी तथापि विनेयजनानुग्रहाय क्रियते ॥ नंतरः। a तद्यथा, चतुर्थे स्थापनास्थाने जघन्या स्थापना एकदिना, अन्या मध्यमा द्विदिना, अन्या त्रिदिना, एवमेकैकं प्रक्षिपता ताव
दंतव्यं, यावदेकोनाशीत्यधिकदिनशततमा स्थापनेति, तथा चतुर्थस्थाने जघन्यारोपणा एकदिना, ततोऽन्या मध्यमा द्विदिना, ॥६३॥
ततोऽन्या त्रिदिना, एवमेकैकं परिवर्धयता तावद्गंतव्यं, यावदेकोनाशीत्यधिकदिनशतमाना सर्वोत्कृष्टा एकोनाशीत्यधिकशततमा आरोपणेति, संप्रति संवेधभावना एकदिनायां स्थापनायां जघन्यारोपणा एकदिना, ततोऽन्या द्विदिना, मध्यमा ततोऽन्या त्रिदिना एवमेकदिनां स्थापनाममुंचता एकै परिवर्घयता तावद्तव्यं यावदेकोनाशीत्यधिकदिनशतमाना सर्वोत्कृष्टा एकोनाशीतिशततमारोपणा अस्यामेकोनाशीत्यधिकशतप्रमाणान्यारोपणास्थानानि, तथाहि द्विदिनायां स्थापनायां जघन्यारोपणा | एकदिना, ततोऽन्या द्विदिना मध्यमा, ततोऽन्या त्रिदिना एवं द्विदिनां स्थापनाममुंचता एकैकं परिवर्धयता तावन्नेयं, यावदष्टसप्तत्यधिकदिनशतमाना सर्वोत्कृष्टा अष्टसप्ततिशततमा आरोपणा, अस्यामष्टसप्ततिशतप्रमाणान्यारोपणास्थानानि, पूर्वस्थापनातोऽस्यां स्थापनायामेकस्य परिवृद्धेरते एकस्य त्रुटितत्वात् ।। एवमुत्तरोत्तरस्थापनास्थानसंक्रांतौ तदंतिममंतिमं स्थानं परिहरता तावद्यातव्यं, यावदेकोनाशीत्यधिकशततमायां स्थापनायामेकैव जघन्या एकदिना आरोपणेति, तथा एकदिनायामारोपणायां जघन्या स्थापना एकदिना, ततोन्या मध्यमा द्विदिना, ततोऽन्या त्रिदिना, एवमेकदिनामारोपणाममुंचता एकैकं
T
॥ ६३॥
For Private and Personal Use Only