________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहारसूत्रस्य
पीठिका -
नंतरः ।
॥ ६१ ॥
")*+ **+******+*K
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्थापनास्थाने आरोपणाचिंतायामारोपणास्थाने वा स्थापनास्थानचिंतायामंते पंचानामपकृष्टिर्हानिर्भवति, एतेन प्रमाणेन पंचकपरिवृद्धिरूपेण पंचकहानिरूपेण च तावन्नेयं, यावदेकत्रांतिमं चरममपरत्रादिमं चरममिति, तथाहि विंशिकायां स्थापनायां जघन्या पाक्षिकी आरोपणा, ततोऽन्या विंशतिका, ततोप्यन्या पंचविंशतिदिनमाना, ततोप्यन्या त्रिंशिका एवं पंच पंच आरोपयता तावन्नेयं, यावत्तस्यामेव विंशिकायां सर्वोत्कृष्टषष्ठयधिकदिनशतप्रमाणा त्रिंशत्तमा आरोपणा, तथा पंचविंशतिकायां स्थापनायां जघन्या पाक्षिकी आरोपणा, ततोऽन्या विंशतिका ततोप्यन्या । पंचविंशतिदिनमाना ततोप्यन्या त्रिंशद्दिना एवं पंच पंच आरोपयता तावन्नेयं, यावत्तस्यामेव विंशतिकायां सर्वोत्कृष्टा पष्ठयधिकदिनशतप्रमाणा त्रिंशत्तमा आरोपणा, तथा पंचविंशतिकायां स्थापनायां जघन्या पाक्षिकी आरोपणा ततोन्या विंशतिका ततोप्यन्या पंचविंशतिदिना ततोन्यात्रिंशद्दिना एवं च परिवर्धयता तावर्द्धतव्यं, यावदेकोनत्रिंशत्तमा पंचपंचाशदधिकदिन शतमाना सर्वोत्कृष्टा आरोपणा, अस्यामेकोनत्रिंशदारोपणास्थानानि, पूर्वस्थानापेक्षया अस्याः स्थापनायाः पंचभिर्दिनैः परिवर्धमानतया पर्यंते पंचानां दिनानां त्रुटित्वात् एवमुत्तरत्रापि भावनीयं, तथा त्रिंशद्दिनायां स्थापनायां जघन्या पाक्षिकी आरोपणा, ततोऽन्या विंशतिदिना ततोप्यन्या पंचविंशतिदिना एवं पंच पंच परिवर्धयता तावन्नेतव्यं यावत्सर्वोत्कृष्टा पंचाशत्शतदिनाऽष्टाविंशतितमारोपणा, अस्यामष्टाविंशतिरारोपणास्थानानि तथा पंचत्रिंशद्दिनायां स्थापनायां जघन्या पाक्षिकी आरोपणा, ततोऽन्या विंशतिदिना ततोप्यन्या पंचविंशतिदिना एवं पंच पंचारोपयता तावद्गंतव्यं, यावत्सर्वोत्कृष्टा पंचचत्वारिंशद्दिनशतमाना सप्तविंशतितमारोपणा, अस्यां सप्तविंशतिरारोपणास्थानानि कारणं प्रागेवोक्तं, एवमुत्तरोत्तरस्थापनासंक्रांतावंतिममंतिमं स्थानं परिहरता तावन्नेतव्यं, यावत्
For Private and Personal Use Only
←→←→←•*O**O**O***O***O*-*
द्वितीयो विभागः ।
॥ ६१ ॥