________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
पंचषष्टिदिनशतायां त्रिंशत्तमायां स्थापनायामेकैव जघन्या पाक्षिकी आरोपणा नान्यति, तथा पाक्षिक्यामारोपणायां जघन्या विशतिदिना स्थापना ततोऽन्या पंचविंशतिदिना मध्यमा, ततोप्यन्या त्रिंशद्दिना, एवं पंच पंच परिवर्धयता तावतव्यं, यावत्पंचपष्ठिदिनशतप्रमाणा सर्वोत्कृष्टा त्रिंशत्तमा स्थापना, तथा विशिकायामारोपणायां जघन्या स्थापना विंशतिदिना, ततोन्या मध्यमा पंचविंशतिदिना, ततोप्यन्या त्रिंशद्दिना एवं यथोत्तरं पंच पंच विलगयता तावद्गंतव्यं, यावत् षष्ठयधिकदिनशतमाना सर्वोत्कृष्टा एकोनत्रिंशत्तमा स्थापना, पूर्वारोपणातो ह्यस्यामारोपणायां पंच दिनान्यधिकानि तानि चोपरि त्रुटितानीत्येकोन त्रिंशदेवास्यामारोपणायां स्थापनास्थानानि, तथा पंचविंशतिदिनायामारोपणायां जघन्या विशिका स्थापना, ततोऽन्या पंचविंशतिदिना मध्यमा, ततोप्यन्या त्रिंशद्दिना एवं पंच पंच परिवर्धयता तावन्नेयं, यावत् पंचपंचाशदिनशतमाना|* सर्वोत्कृष्टाऽष्टाविंशतितमा स्थापना, अस्यां हि प्रागुक्तयुक्त्याष्टाविंशति स्थापनास्थानानि, एवमुत्तरोत्तरारोपणासंक्रांतावंतिम| मंतिमं स्थापनास्थानं परिहरता ताबद्तव्यं, यावत् पष्ठिदिनशतमायारोपणायां जघन्या विशिका स्थापनेति, यथा च प्रथमे | स्थापनास्थाने आरोपणास्थाने च प्रत्येकं संवेधतश्च स्थापना कृता, तथा द्वितीये तृतीये च कर्त्तव्या, तद्यथा द्वितीये स्थापनास्थाने जघन्या स्थापना पाक्षिकी, ततः पंचकप्रक्षेपेऽन्या विंशतिदिना तत्रापि पंचकप्रक्षेपेऽन्या पंचविंशतिदिना एवं पंच पंच प्रक्षिपता तावद्गंतव्यं, यावत् पंचसप्ततिरात्रिंदिवशतप्रमाणा त्रयस्त्रिंशत्तमा स्थापनेति, तथा द्वितीय स्थाने जघन्यारोपणा पंचाहिका, ततः पंचकप्रक्षेपे दशाहिका ततोपि पंचकप्रक्षेपे पाक्षिकी, एवं पंच पंच परिवर्धयता तावन्नेयं, यावत्पंचपष्ठिदिनशतमाना त्रयसिंखशत्तमा सर्वोत्कृष्टा आरोपणेति, इदानी संवेधभावना पाक्षिक्यास्थापनायां जघन्या पंचाहिका
For Private and Personal Use Only