________________
Shri Mahavir Jain Aradhana Kendra
*O* •*H* •*@********A**(→
www.kobatirth.org
पंचपरिवुड, उकडीचेव होइ पंचन्हं । एएण पमाणेणं, नेयव्वं जात्र चरिमंति ॥ ९७७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
स्थापनायामारोपणायां च प्रत्येकं जघन्यपदादारभ्योत्तरोत्तरस्थान जिज्ञासायां पंचानां परिवृद्धिर्ज्ञातव्याः प्रत्येकमेवमेवांतिमस्थापनादारभ्य क्रमेणाधोऽधः स्थानचिंतायां पंचानामपकृष्टिर्हानिर्भवत्यश्व सातव्या तद्यथा- पंचपष्ठयधिकरात्रिंदिवशतप्रमाणा सर्वोत्कृष्टात्रिंशत्तमा स्थापना, ततः पंचानामपसारणे रात्रिं दिवषष्यधिकशतमाना एकोनत्रिंशत्तमा मध्यमा, ततोपि पंचानामपगमे पंचपंचाशदधिकशतप्रमाणा अष्टाविंशतितमा, एवं क्रमेणाधोधस्तात् पंच पंच परिहापयता तावन्भेतव्यं, यावत् विंशतिदिनप्रमाणा प्रथमा स्थापना, तथा पष्ठयधिकरात्रिंदिवशतप्रमाणा सर्वोत्कृष्टा त्रिंशत्तमा आरोपणा, ततः पंचानामपगमे पंचपंचाशदधिकशतमाना एकोनत्रिंशत्तमा मध्यमा, ततोपि पंचानामपगमे पंचाशच्छतप्रमाणा अष्टाविंशतितमा, एवं क्रमेणाधोधः पंच पंच परिहापयता तावन्नेयं, यावत् प्रथमा पक्षप्रमाणेति, तथा चाह, एएणेत्यादि एतेन पूर्वानुपूर्व्या पंचकपरिवृद्धिरूपेण पश्चादनुपूर्व्या पंचकापकृष्टिरूपेण प्रमाणेन पूर्वानुपूर्व्या जघन्यपदादारभ्य पश्चादनुपूर्व्यामुत्कृष्टात् स्थानात् प्रभृति तावन्नेतव्यं यावच्चरमं स्थानं परिवृद्धौ सर्वातिमं स्थानं चरममपकृष्टौ जघन्यमादिमं चरममिति, अथवेयं गाथा अन्यथा आख्यायते, पूर्वं किल स्थापनायामारोपणायां च प्रत्येकं जघन्यमध्यमोत्कृष्टभेदभिन्नानि स्थानानि उक्तानि, सांप्रत - मेकैकस्मिन् स्थापना स्थाने जघन्यादौ कियंत्यारोपणास्थानानि एकैकस्मिन् वारोपणास्थाने कियंति स्थापनास्थानानीत्येतत् प्रतिपादयति पंचण्ड परिवुड्डि इत्यादि पूर्वस्मात् स्थापनास्थानादारोपणास्थानाद्वा उत्तरस्मिन्नुत्तरस्मिन् स्थापनास्थाने यारोपणास्थाने वा वृद्धिर्भवति यस्मिंश्च यदपेक्षया स्थापनास्थाने आरोपणास्थाने वा पंचानां वृद्धिर्भवति, तस्मिन् तदपेक्षया
११
For Private and Personal Use Only
*+***-****-***+)++******++--