________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहारसूत्रस्य
पठकनंतरः ।
॥ ६० ॥
*******
www.kobatirth.org
ठवणा होइ जहन्ना वीसइ राइंदियाई पुन्नाई ॥ पाठं चैव सयं ठवणा उक्कोसिया होति ॥ १७५ ॥ प्रथमे स्थापनास्थाने जघन्या स्थापना भवति, पूर्णानि परिपूर्णानि विंशतिरात्रिंदिवानि, विंशतिरात्रिंदिवप्रमाखेति भावः ॥ उत्कृष्टा भवति स्थापना पंचषष्ठं शतं पंचषश्यधिकं रात्रिदिवानां शतं, शेषाणि तु स्थानानि मध्यमानि संप्रति प्रथमे आरोपणास्थाने या जघन्या आरोपणा या चोत्कृष्टा तां प्रतिपादयिषुराह ॥
श्रावणा जहन्ना पन्नरसराइंदियाइं पुन्नाई ॥ उक्कोसं सट्ठिसयं, दोसुवि पक्खेवगो पंच ॥ १७६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमे आरोपणास्थाने जघन्या श्रारोपणा पूर्णानि परिपूर्णानि पंचदश रात्रिंदिवानि, उत्कृष्टां पुनरारोपणां जानीयात् ; षष्टिशतं षष्ठयधिकं रात्रिंदिवशतं शेषाणि तु स्थानानि मध्यमानि तत्परिज्ञानार्थमाह दोसुवि पखेबगो पंच, द्वयोरपि स्थापनारोषणयोः प्रत्येकं जघन्यपदादारभ्योत्तरोत्तरे मध्यमे स्थाने प्रचेपकः पंच पंच परिमाणो ज्ञातव्यो यावदुत्कृष्टं पदं, इयमत्र भावना, प्रथमे स्थापनास्थाने जघन्या स्थापना विंशतिका, ततः पंचकप्रक्षेपेऽन्या द्वितीया पंचविंशतिदिनमाना, ततः पुनः पंचकप्रक्षेपे तृतीया त्रिंशद्दिना, एवं पंच पंच परिवर्धयता तावन्भेतव्यं यावत् पंचषष्ठरात्रिंदिवशतप्रमाणा त्रिंशत्तमा स्थापनेति, तथा प्रथमे आरोपणास्थाने जघन्यारोपणा पक्षप्रमाणा ततः पंचकप्रक्षेपे विंशतिदिनप्रमाथा द्वितीया, ततोपि पंचकप्रक्षेपे पंचविंशतिदिनमाना' तृतीया, एवं यथोत्तरं पंच पंच परिवर्धयता ताव नेयं यावत् षष्ट्यधिकरात्रिं दिवशतप्रमाणा त्रिंशत्तमेति एतदेव सुव्यक्तमाह ॥
For Private and Personal Use Only
**D***@***O*-*O*-**-***•*• •Æ
द्वितीयो
विभागः ।
॥ ६० ॥