________________
Shri Mahavir Jain Aradhana Kendra
*K***••**•***********-**-**@**
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मासिकानि प्रतिसेव्य कदाचित् मासिकमेव प्रायश्चित्तमापद्यते || मंदाध्यवसायेन प्रतिसेवनात् कदाचिदुपरि वर्द्धते, तद्यथा कदाचित् द्वैमासिकं तीव्रेणाध्यवसायेन प्रतिसेवनायाः करणात् त्रैमासिकं वा, यावत् पाण्मासिकं वा कदाचिदतिदुष्टाध्यवसायेन प्रतिसेवनात् छेदं वा कदाचिन्मूलं वा यावत् कदाचित् पारांचितं वा; तथा तेन प्रकारेणाधस्तादपि परिहीयते हानिमुपगच्छति । तद्यथा मासिकं प्रतिसेव्य कदाचित् भिन्नमासमापद्यते, कदाचित् पंचविंशतिरात्रिंदिवं यावत् रात्रिंदिवपंचकं दुविहं तिविहं चेति, द्विविधौ प्रकारौ मासलचणौ यस्य तत् द्विविधं द्वैमासिकमित्यर्थः । तदेवं त्रिविधं त्रैमासिकं च शब्दात् चातुर्मासिकं पांचमासिकं षाण्मासिकं च प्रतीत्योक्तरूपेण प्रायश्चित्तवृद्धिहानी वक्तव्ये, तद्यथा द्वैमासिकं स्थाने प्रतिसेविते कदाचित् तदेव द्वैमासिकमापद्यते कदाचित् त्रैमासिकं कदाचित् चातुर्मासिक मेवं यावत् पारांचितं अधस्ताद्वानिरेवं द्वैमासिकं प्रतिसेव्य कदाचित् मासिकप्रायश्चित्तं लभते कदाचित् भिन्नमासमेवं यावत् पंचरात्रिदिवं एवं त्रैमासिक चातुर्मासिक पांचमासिक षण्मासिकेष्वपि भावनीयं । अत्राचार्य आह, आमंति, आम शब्दोऽनुमतौ संमतमेतत् तदस्माकं सर्वमिति भावः ॥ | केण पुकारणं जिण पन्नत्ताणि काणि पुण ताणि । जिण जाणंति उ ताइं चोयग पुच्छा बहु नाउं ॥ १६६ ॥ शिष्यः प्रच्छति केन पुनः कारणेन मासिकादौ प्रायश्चित्त स्थाने प्रतिसेविते प्रायश्चित्तस्य वृद्धिहानी भवतः ॥ आचार्य यह अत्र कारणानि जिनप्रज्ञप्तानि सर्वज्ञोपदिष्टानि कानि पुनस्तानीति चेदुच्यते ॥ रागद्वेषहर्षादीनि, तथाहि रागाध्यवसायानां चोपर्युपरि वृद्ध्या यदि वा सिंहव्यापादकस्येव पश्चाद्धर्ष वृद्धया मासिक प्रतिसेवनाया मप्युत्तरोत्तर प्रायश्चित्त वृद्धिर्भवति, तथा प्रथमत
For Private and Personal Use Only
0.08+