________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|द्वितीयो विभाग:
भीष्यवहारपत्रस्यपीठिका:नंतरः।
अत्र च एतस्मिन् सूत्रसमूहे एतावत्यः प्रतिसेवना एवं संख्याकाः प्रतिसेवनाप्रकाराः पंचानां पदानां एकक द्विक त्रिक | चतुष्क पंचकैरेकक द्विक त्रिक चतुष्कंपचकसंयोगर्ये भवंति भंगाः ॥ क्रमेण दशदशेत्यादिना इहैकसंयोगे भंगाः पंच साक्षात् सूत्रे एव दर्शिता इति नोक्ताः, सामर्थ्याचवसेया स्ततोऽयमऽर्थः। पंच पंश्च दश दश पंचक इति तेम्योऽवसेयाः यथावसातव्या स्तथा प्रागेवोक्ताः । अदुव अणेगा तो एयाओ इति । अथवा न केवलमेतावत्य एवैताः प्रतिसेवना, किंत्वन्या सामपि भावादनेका एता दृष्टव्याः, ताश्चान्याः प्रतिसेवना इमाः।
जे भिक्खू पंचराइंदियं पडिसेवित्ता आलोएजा, अपलि उचियं आलोएमाणस्स पंचराइंदियं मासियं, एवं दश पंचदश विंशति पंचविंशति रात्रिंदिवेष्वपि सूत्राणि वक्तव्यानि एवमेव पंचसूत्राणि बहुशः शब्दाभिलापेनाभिधातव्यानि ॥ तदनं | तरं तृतीयसंयोगसूत्रं षड्विंशतिसूत्रात्मकं वक्तव्यं ततश्चतुर्थे संयोगसूत्रं षडविंशतिसूत्रात्मकं बहुशः शब्दविशेषितमेवमेतानि सामान्यतो द्वाषष्ठिः सूत्राणि भणित्वा तदनंतरमुद्घातानुद्घातमिश्रमूलोत्तरदर्पकल्पैः प्रागुक्तप्रकारेण तावत् सूत्राणि वक्तन्यानि यावदष्टौ सहस्राणि चत्वारि शतानि द्वात्रिंशदधिकानि परिपूर्णानि भवंति, ॥ अत्र पंचकादीनि मासिकद्वैमासिकादिभिः सह न वारयितव्यानि. यत उपरि पंचमासातिरेकसूत्रं वक्ष्यति ॥ तत्र च सातिरेकता पंचकादिभिरिति पुनरुक्तता स्यादिति सांप्रतमेतेषां सूत्राणामावगमेनोत्कलितप्रज्ञः सन् शिप्यः पृच्छति जहमन्ने बहुसो मासियाइं सेवितुं वड्डइ उवरिं, तह हेटा परिहायइ दुविहं तिविहं च आमंति ॥१६५॥|
इह मासिक द्वैमासिकादि प्रायश्चित्तापचिः, प्रतिसेवक परिणामानुरूपा, ततोहं मन्ये चिंतयामि, यथा येन प्रकारेण बहूनि
॥५६ ।।
For Private and Personal Use Only