________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रस्य पीठिका नंतरः।
द्वितीयो विभाग
H५ ॥
एव मघातिते द्वैमासिके त्रैमासिके चतुर्मासिके पंचमासिके च प्रत्येक दश दशेति सर्वसंख्यया उद्घातितकैकसंयोगे अनुद्पातितदिकसंयोगे भंगाः पंचाशत् इह एकैककस्मिन् अनुद्घातितसंयोगे उद्घातितमासिकद्वैमासिकादिक्रमेण पंच पंच भंगा लभ्यते, ततो ये ऽनुद्घातिते त्रिकसंयोगे दश भंगास्ते पंचभिर्गुण्यंते जाता सूत्रं भंगाः पंचाशत् , ॥ चतुष्क संयोगे भंगाः पंचपंचभिगुणिता जाताः पंच सर्वसंख्यया उद्घातिक संयोगेन भंगानां पंचपंचाशदधिकं शतं १५५
तथा पंचानां पदानां द्विकसंयोगभंगाः दशेत्युद्घातिते द्विकसंयोगचिंतायामेकैकस्मिन् अनुद्घातितसंयोगे भंगा दश दश | लभ्यते इति अनुद्घातिते एकैकसंयोगे पंचद्विकसंयोगे दश, त्रिकसंयोगे दशचतुष्कसंयोगे पंच पंचकसंयोगे एकः प्रत्येक दशमिर्गुण्यंते इति जातं क्रमेण भंगानां पंचाशवशतंशतं पंचाशत् दश च,
५०, १००,१००,५०। १० । सर्वसंख्यया उद्घांते द्विकसंयोगे भंगानां त्रीणि शतानि दशोत्तराणि । ३१० । तथा पंचानां पदानां त्रिकसंयोगेपि भंगा दशेत्युक्त्वा तत्र त्रिकसंयोगे चिंतायामप्येकैकसिन् उद्घातितसंयोगे भंगा दश दशेत्येकै कसंयोगे पंच, द्विकसंयोगे दश, त्रिकसंयोगे दश, चतुष्कसंयोगे पंच, पंचकसंयोगे एक; प्रत्येकं दशभिर्गुण्यंते जाता क्रमणेयं भंगाना संख्या पंचाशत् , शतं, शतं, पंचाशब्दश ५० १०० १००,५० । १० । अत्रापि सर्वसंख्यया मंगानां त्रीणि शतानि दशोत्तराणि ।३१० | पंचानां चतुष्कसंयोगे भंगाःपंच, तत उद्घातिते चतुष्कसंयोगचिंतायामेकैकसिन् अनुद्घातितसंयोगे भंगाः पंच पंच लम्यते इति, तत्रैकैक संयोगजाःपंच, द्विकसंयोगजा दश, त्रिकसंयोगजा दश, चतुष्कसंयोगजाः पंच, पंचकसंयोगजएकः प्रत्येकं पंचभिर्गुण्यंते ततो जाता क्रमेणेयं भंगानां संख्या पंचविंशतिः पंचाशत् पंचाशत् पंचविंशतिः पंच
EST||५५॥
For Private and Personal Use Only