________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रस्य पीठिकानंतरः।
द्वितीयो। विभाग:
॥५१॥
गृहीतं युष्माकमेप प्रमादस्तस्मात् दंडं दशकुंभान् ददत एष दृष्टांतः अयमर्थोपनयः। तित्थयरा रायाणो, जइणो दंडाय कायकोठारा। असिवाइ बुग्गह पुण अजयपमाया रुहण दंदो॥१५२॥
तीर्थकरा राजानो राजस्थानीयाः, साधवो दंडा दंडस्थानीयाः कायाः, पृथिवीकायिकादयः कोष्ठागाराणि कोष्ठागारतुल्याः। अशिवादीनि कारणानि, व्युद्ग्रहाः प्रत्यंतपरनृपेण सह ये व्युद्ग्रहास्तवस्थानीयानि अयतनाप्रमादरोधनार्थ गीताथेस्यायतनाप्रसंगनिवारणार्थेमगीताथेस्य प्रमादनिवारणार्थ सर्वेषां प्रतिसेवितानां मासानां समविषमतया दिवसान गृहीत्वा मासो दंडो दीयते इति । अत्र पर माह ॥ छ । बहएहिवि मासेहिं एगो जइ दिज्जतीउ पच्छित्तं । एवं बहुसेवित्ता एकसि वियडेमो चोएड ॥१५३॥
यदि गीतार्थस्य कारणेन अयतनया बहुकेष्वपि मासेषु सूत्रे तृतीया सप्तम्यर्थे प्राकृतत्वात् प्रतिसेवितेषु एकवेलायामालोचिता इति कृत्वा एको मासः प्रायश्चित्तं दीयते, ततः इतः प्रभृति वयं बहूनि मासिकादीनि प्रतिसेव्य एक्कसि एकवेलायां विकटयिष्यामः । तत एकमेकमासिकादिकं लप्स्यामहे इति चोदयति चोदकः तत्राचार्य आह ॥ छ ।। | मा वय एवं एकसि वियडेमो सुबहुएवि सेवित्ता, लब्भिसि एवं चोयगदेंते खल्लाड खडुगं च ॥१५४॥ ___मा वद, मा वादीरेवं, यदुत सुबहून्यपि मासिकादीनि स्थानानि सेवित्वा प्रतिसेव्य एकसिं एकवेलायां विकटयिष्यामो येनैकमेव मासिकादिकं लप्सामहे इति यत् एवं कुर्वन् चोदक! लप्स्यसे महांतमपराध, खल्वाटे खडकां ददान इव, अत्र
For Private and Personal Use Only