________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तेषु एक पंचमासिकेषु परिहारस्थान प्रतिसेवितेष्वप्यक है।
*प्रतिसेवितेष्वपि एकमेव मासं प्रयच्छथ, द्वैमासिकेषु परिहारस्थानेषु बहुशः प्रतिसेवितेष्वप्येकं द्वैमासिक, त्रैमासिकेषु परिहार|| स्थानेषु बहुशः प्रतिसेवितेष्वप्येकं त्रैमासिकं, चातुर्मासिकेषु परिहारस्थानेषु बहुशः प्रतिसेवितेष्वेकं चातुर्मासिक, पंचमासि
केषु परिहारस्थानेषु बहुशः प्रतिसवितेषु एक पंचमासिकं, एवं बहुकेषु बहुशः प्रतिसेवितेषु मासिकादिषु परिहारस्थानेष्वेकदाने एकैकसंख्याकस्य मासिकादेर्दानैर्येष्वेवं प्रयच्छथ, तेषु रागः आयेषु पंचसूत्रेषु एकैकदाने एकैकवारं यत् प्रतिसेवितं मासिकादि तस्य परिपूर्णस्य दानेष्वेवं प्रयच्छथ, तेषु विषये द्वेष एव, तुः शब्दः एवकारार्थः न च रागद्वेषवंतः परेषां शोधिमुत्पादयितुं क्षमाः सम्यक् प्रायश्चित्तदानविधिरकरणादिति । अत्र सरिराह एवमित्यादि । अहो चोदक एवमादिमेषु पंचसु
सूत्रेषु यावन्मात्र प्रतिसेवितं तावन्मात्रस्य परिपूर्णस्य दानमगीते अगीतार्थे प्रतिसेवके, यत् पुनर्बहुशः शब्दविशेषितेषु पंचसु * सूत्रेषु बहुशः प्रतिसेवितेष्वपि मासिकादिषु स्थानेष्वेकैकेन संख्यांकस्य मासिकादेर्दानं तत् गीतार्थे अयतनासेविनि अयतनया
प्रतिसेवके ततो गीतार्थागीतार्थभेदेन प्रतिसेवकस्य भेदादित्थं प्रायश्चित्तविधानमित्यदोषः अत्रैवार्थे दृष्टांतमाह। जो जत्तिएण रोगो, पसमइ तं देइ भेसजं वेज्जोएवागमसुयनाणी, सुज्झइ जेणं तयं देंति भा. १४३॥
यो रोगो यस्मिन् पुरुषे अल्पो महान्वा पुरुषप्रकृतिमपेक्ष्य यावन्मात्रेण प्रशाम्यति, तस्य पुरुषस्य तत् तावन्मात्रभेषजं वैद्यः प्रयच्छति नाधिकं, एवममुना दृष्टांतप्रकारेण, मकारस्य लोपःप्राकृतत्वात् ।आगमसुयनाणीति, ज्ञानिशब्दः प्रत्येकमाभिसंबध्यते, आगमज्ञानिनः श्रुतज्ञानिनश्च यो गीतार्थोऽगीतार्थश्च येन यावन्मात्रेण प्रायश्चित्तेन परिणामवशात् शुध्यति, तस्मै तत्तावत्प्रमाणं प्रायश्चित्तं ददाति, ततो यथौचित्यप्रवृत्चेनं रागद्वेववत्तेति न काचित्क्षतिः, संप्रति वक्ष्यमाणार्थसूचिकामिमां संग्रहविगाथामाह ।
For Private and Personal Use Only