________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहारसूत्रस्य पीठिका -
नंतरः ।
॥ ४७ ॥
*€०***०*
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शब्दार्थः । मासिकं परिहारस्थानं प्रतिसेव्य आलोचयेत् तस्याप्रति कुंच्यालोचयतो मासिकमेकं प्रायश्चित्तं, प्रतिकुंच्यालोचयतो द्वितीयो मायानिष्पन्नो गुरुमासो दीयते इति द्वैमासिकं इयमत्र भावना, केनापि गीतार्थेन कारणे प्रयतनया त्रीन् वारान् बहून् वारान् वा मासिकं परिहारस्थानं प्रतिसेवितमालोचनाकाले चाप्रतिकुंचनयालोचितं तस्मै एकमेव मासिकं प्रायश्चित्तं दीयते नतु यावतो वारान् प्रतिसेवना मासिकस्य कृतवान् तावंति मासिकानीति कारणप्रति सेवनायाः कृतत्वात्, अथ प्रतिकुंचनयालोचयति, ततो द्वितीयो मासो मायानिष्पन्नो गुरुर्दीयते । इति द्वैमासिकं, एवं शेषाण्यपि द्वैमासिकादीनि विषयाणि चत्वारि सूत्राणि भावनीयानि, नवरं द्वैमासिकसूत्रे तृतीयो मायानिष्पन्नो गुरुमासो दीयते इति त्रैमासिकं, त्रैमासिकसूत्रे चतुर्थो मायानिष्पन्नो मास इति चातुर्मासिकं चातुर्मासिकसूत्रे पंचमो मायाप्रत्ययो मास इति पंचमासिकं, पांचमासिकसूत्रे षष्ठो मायानिष्पन्नो गुरुमास इति षण्मासिकं, ततः षण्मासिके परिहारस्थाने आलोचनाकाले प्रतिकुंचनायामप्रतिकुंचनायां वात एव स्थिताः षण्मासा इति; अमीषां पंचानामपि सूत्राणां सूचकमिदं गाथायाः पश्चार्द्ध । पंचगमानेव्वा बहूहिं उक्खडमड्डाहिं वा ॥ भा० १४१ ॥
पंचगमाः सूत्रप्रकारा ज्ञातव्याः । कथमित्याह || बहूहिं इत्यादि, उकडमड्डा । इति देशीपदमेतत् पुनः पुनः शब्दार्थश्च वारंवारं, ततोयमर्थः । बहुभिर्वारैर्विशेषिता बहुशब्द इति पदविशेषिता इत्यर्थः । अत्र चोदक आह बहुए एगदाणे, रागो एक्केकदाणे दोसो उ ॥ एवमगीते चोयग गीयंमि य अजयसेविम्मि ॥ भा० १४२॥ ननु यूयं न मध्यस्था रागद्वेषकरणात् तथाहि बहुशः प्रतिसेवितेष्वेतेषु पंचसु सूत्रेषु मासिकेषु परिहारस्थानेषु बहुशः
For Private and Personal Use Only
*********
द्वितीयो विभागः ।
॥ ४७ ॥