________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्यत्र त्वं शोधिं कुरु, नाहं तव शक्नोम्येतादृश्याआलोचनायाः सद्भावमजानानः शोधि कर्तुमिति, अथवा शिष्यः पृच्छति भगवन् एतानि मासादीनि षण्मासपर्यतानि परिहारस्थानानि कुतः प्राप्तानि सूरिराह तिगट्ठाणा उद्गमादित्रिकरूपात् स्थानात् किमुक्तं भवति ? । उद्गमोत्पादनैषणासु यत् अकल्प्यप्रतिसेवनाया अनाचारकरणं, तस्मादेतानि प्राप्तानि।
सांप्रतं पाण्मासिकं परिहारस्थानसूत्रमाह । तेण परं पलिउंचिए वा अपलिउंचिए वा ते चेव षण्मासा; तेनेत्यव्ययं, तत इत्यर्थे ततः पंचमासिकात् परिहारस्थानात् परमित्येतदप्यव्ययं सप्तम्यर्थप्रधानं परस्मिन् षण्मासिके परिहारस्थाने प्रतिसेविते आलोचनाकाले प्रतिकुंचिते वा अप्रतिकुंचिते वा प्रतिकुंचनया वा अप्रतिकुंचनया वा आलोचिते इत्यर्थः । ते एव प्रतिसेवनानिष्पन्नाः स्थिताः षण्मासाः, नाधिकं प्रतिकुंचनानिमित्तमारोपणं, कम्मादिति चेत् । उच्यते, इह जीतकल्पोयं, यस्य तीर्थकरस्य यावत्प्रमाणमुत्कृष्टं तपःकरणं, तस्य तीर्थे तावदेव शेषसाधूनामुत्कृष्टं प्रायश्चित्तदानं चरमतीर्थकरस्य तु भगवतो वर्द्धमानस्वामिन उत्कृष्टतपः पाण्मासिकं, ततोऽस्य तीर्थे सर्वोत्कृष्टमपि प्रायश्चित्तदानं षण्मासा एवेति, षण्मासिकपरिहारस्थानं प्रतिसेव्य प्रतिकुंचनयाप्यालोचयतो नाधिकमारोपणमतस्त एव षण्मासाः स्थिता उक्ताः।।
सूत्रं, जे भिक्खू बहुसो मासियं परिहारट्राणं पडिसेवित्ता आलोएज्जा, अपलिउंचियं श्रालोएमाणस्स मासियं, पलिउंचियं पालोएमाणस्स दोमासियं ॥ सूत्र-६॥
जे भिक्खू बहुसोवि मासियं परिहारहाणमित्यादि यो भिक्षुर्बहुशोपि त्रिप्रभृतिवारानपि आस्तामेकं द्वौ वा वारावित्यपि
For Private and Personal Use Only