SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यव हारसूत्रस्य पीठिका - नंतरः । ॥ ४१ ॥ ******@*************-* www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तपक्खेि खेते उच्छुवणे सालिचेइघरे वा; गंभीरमागुणाए, पयाहिणावत्तउदए य ॥ भा० ॥ १३०॥ तस्य प्रागुक्तस्याप्रशस्तस्य प्रतिपचे प्रशस्ते क्षेत्रे इक्षुवने उपलक्षणमेतत् । आरामे वा पत्रपुष्पफलोपेते सालित्ति वनशब्दोऽत्रापि संबध्यते शालिवने चैत्यगृहे वा शब्दाविकल्पने, तथा गंभीरं नाम भग्नत्वादिदोषवर्जितं, शेषजनेन च प्रायेणालक्षणीयमध्यभागं स्थानं गंभीरमस्थाद्यमिति वचनात्, सानुनादे यत्रोच्चारिते शब्दे प्रतिशब्दः समंतत उत्तिष्ठति, तत्, सानुनादं तथा प्रदक्षिणावर्त्तमुदकं यत्र नद्यां पद्मसरसि वा तत् प्रदक्षिणावर्त्तोदकं तस्मिन्वा च शब्दो वा शब्दार्थः । कचित् वा शब्दस्यैव पाठः, प्रशस्तं कालमाह । उत्तदिणे सेसकाले उच्चट्ठाणा गहा य भावंमि; पुव्वदिसउत्तरा वा, चरंति य जाव नवपुव्वी ॥ भा० ॥ १३१ ॥ उक्तानि यानि दिनानि अष्टम्यादीनि तेभ्यो ये शेषा द्वितीयादयो दिवसास्ते च शेषकालच उक्तदिनशेषकालस्तस्मिन् प्रशस्ते व्यतीपातादिदोषवर्जिते उपलक्षणमेतत् प्रशस्ते च करणे प्रशस्ते च मुहूर्त्त एतत् कालतः प्रशस्तमुक्तं । भावतः प्रशस्तमाह उच्चैस्थानं येषां ते उच्चस्थाना ग्रहा भावे भावविषयं प्रशस्तं किमुक्तं भवति भावतः उच्चस्थानगतेषु ग्रहेषु तत्र ग्रहाणामुच्चैः स्थानमेवं, सूर्यस्य मेष उच्चै स्थानं सोमस्य वृषभः, मंगलस्य मकरः, बुधस्य कन्या, वृहस्पतेः कर्कटकः शुक्रस्य मीनः, शनैश्वरस्य तुला सर्वेषामपि च ग्रहाणामात्मीयादुच्चैः स्थानात् यत् सप्तमं स्थानं तत् नीचैः स्थानं । अथवा भावतः प्रशस्ताये सोमग्रहा बुधशुक्रबृहस्पतिशशिन एतेषां संबंधिषु राशिषु एतैरवलोकितेषु च लग्नेषु आलोचयेत्, तथा तिस्रो दिशः For Private and Personal Use Only द्वितीयो विभागः । ॥ ४१ ॥
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy