________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
प्रशस्ता ग्राह्याः, तद्यथा पूर्वोत्तरा चरंती चरंती नाम यस्यां भगवानहन् विहरति सामान्यतः केवलज्ञानी मनःपर्यवज्ञानी अवविज्ञानी चतुर्दशपूर्वी त्रयोदशपूर्वी यावनवपूर्वी, यदिवा यो यस्मिन् युगे प्रधान प्राचार्यः सवा यया विहरति एतासां तिसणां। दिशामन्यतमस्या दिशोभिमुख आलोचना)ऽवतिष्ठते, तस्येयं सामाचारी । निसजासति पडिहारिय, किइकम्मं काउ पंजलुक्कुडुअो; बहुपडिसेवरिसा सुयश्रणुण्णा वेउं निसिंजगतो १३२ *
आत्मीयकल्पैरपरिभुक्तैराचार्यस्य निषद्यां करोति । असति आत्मीयकल्पानामभावे अन्यस्य सत्कान् प्रातिहारिकान कन्पान् गृहीत्वा करोति । कृत्वा च यद्याचार्यः पूर्वाभिमुखो निषीदति, तत आलोचको दक्षिणत उत्तराभिमुखो अवतिष्ठते, अथाचार्य उत्तराभिमुखो निषण्णः । तत आलोचको वामपाधै पूर्वाभिमुखस्तिष्ठति, चरंती वा दिशं प्रत्यभिमुखो भवति ततः कृतिकर्म द्वादशावर्त वंदनकं दत्वा प्रबद्धोंजलिर्येन स प्रांजलिः उत्सर्गत उत्कुडुकः स्थितः सन् आलोचयेत् । यदि पुनर्वहुप्रतिसेवितमस्तीति चिरेणालोचना समाप्तिमुपयास्यति तावंतं च कालमुत्कुटुकः स्थातुं न शक्नोति, यदिवा अर्शोरोगवत उत्कुटुकस्य सतो अशासि चोभमुपयाति । ततो बहुप्रतिसेवी अर्शःसु च सत्सु गुरुमनुब्राप्य निषद्यायामौपग्रहिकपादनोंछने वा अन्यस्मिन्वा यथार्ह आसने स्थित आलोचयति, किं पुनस्तदा आलोचनीयं उच्यते चतुर्विधद्रव्यादि तथाचाह ।
चेयणमचित्तदव्वं जणवय मद्राणा य होइ खेत्तंमि, दिणनिसिसु भिख्ख दुभिक्खकाले भावमि हटेयरे ॥ भा०॥ १३३ ॥
For Private and Personal Use Only