________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संज्झागयं रविगयं, विदारं संग्रहं विलंबिं च, राहुहयं गहभिन्नं वज्जेए सत्त नक्खत्ते ॥ भा० १२७॥
संध्यागतं नाम यत्र नक्षत्रे सूर्योऽनंतरं स्थास्यति तत आदित्यपृष्ठस्थितमन्ये पुनराहयस्मिन्नुदिते सूर्य उदेति तत् संध्यागतमपरे त्वेवं त्रुवते, यत्र रविस्तिष्ठति । तस्माच्चतुर्दशं पंचदशं वा नक्षत्रं संध्यागतं, रविगतं यत्र रविस्तिष्ठति, पूर्वद्वारिके नक्षत्रे पूर्वदिशा गंतव्ये यदा अपरया दिशा गच्छति । तदा तत् विद्वारं विगतद्वारमित्यर्थः, यत् क्रूरग्रहेणाक्रांतं तत् संग्रह, विलंबि यत् सूर्येण परिभुज्य मुक्तं, अन्ये त्वाहुः सूर्यस्य पृष्टतोऽग्रतो वा अनंतरं नक्षत्रं संध्यागतं यत्पुनः सूरगतात् नक्षत्रात् पृष्ठतस्तृतीयं तत् विलंबि इति । राहुहतं यत्र सूर्यस्य चंद्रस्य वा ग्रहणं, यस्य मध्येन ग्रहोऽगमत् तत् ग्रहभिन्नं एतानि सप्त नक्षत्राणि चंद्रयोग युक्तानि वर्जयेत् यत् एतेष्विमे दोषाः ॥ | संज्झागयंमि कलहो, होइ कुभत्तं विलंबिनक्खत्ते; विद्दारे परविजयो श्रादिच्चगए अनिव्वाणीजं ॥१२८॥ जंसंगहमि कीरइ, नक्खत्ते तत्तबुग्गहो होइ, राहुहयंमि य मरणं, गहभिन्ने सोणिउग्गालो॥ भा०॥१२९॥
संध्यागते नक्षत्रे शुभप्रयोजनेषु प्रारभ्यमाणेषु कलहो राटिर्भवति. विलंबिनक्षत्रे कुभक्तं, विद्वारे परे परेषां शत्रूणां विजयः । आदित्यगते रविगते अनिर्वाणिरसुखं, संग्रह पुनर्नक्षत्रे यत् क्रियते तत्र व्युग्राहः संग्रामो भवति, राहुहते मरणं, ग्रहभिन्न शोणितोद्गारः। शोणितविनिर्गमः एवंभूतेष्वप्रशस्तद्रव्यक्षेत्रकालभावेषु नालोचयेत् प्रशस्तेषु तत्र प्रशस्ते द्रव्ये शान्यादिप्रशस्तधान्यराशिषु मणिकनकमौक्तिकवज्रवैडूर्यपद्मरागादिराशिषु च प्रशस्तं क्षेत्रं साक्षादाह ।
For Private and Personal Use Only