________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भग्गघरे कुड्डेसुय, रासीसु य जे दुमा य अमणुप्मा ॥
तत्थ न आलोएज्जा, तप्पडिवक्खे दिसा तिमि ॥ भा० १२३ ॥ यत्र स्थंभतुलाकुड्यादीनामन्यतमत् किमपि पतितं तत् भन्नग्रहं तत्र तथा कुड्डेसु इति कुड्यग्रहणात् कुड्यमात्रावशेष, तत्र पाठांतरं रुद्देसुय इति तत्र रुद्रेषु रुद्रग्रहेषु तथा राशिषु अमनोज्ञतिलमाषकोद्रवादिधान्यराशिषु ये च द्रुमा अमनोज्ञा निष्प त्रककंटकिप्रभृतयोऽमनोज्ञा अप्रशस्तास्तत्र तेष्वप्याश्रयभूतेषु उपलक्षणमेतत् अप्रशस्तासु तिथिषु अप्रशस्तेषु संध्यागतादिषु नक्षत्रेषु अप्रशस्ताश्च याम्यादीदिशाभिगृह्य नालोचयेत् किंतु तत्प्रतिपक्षे प्रशस्तद्रव्यादिरूपे आलोचयेत् , तथा प्रशस्ताश्च तिम्रो दिशः पूर्वामुत्तरां चरंती चाभिगृह्य आलोचयेत् इदानीममनोन्नधान्यराश्यादिषु द्रव्यादित्वयोजनामाह ।
श्रमणुमधन्नरासी, अमणुमदुम्मा य होंति दव्वंमि ॥
भग्गघरे रुदऊसर, पवायदड्ढाइ खित्तंमि ॥ भा० १२४ ॥ अमनोज्ञा धान्यराशयो अमनोज्ञद्रुमाश्च भवंति, द्रव्ये द्रष्टव्याः, भग्नग्रहं प्रागुक्तस्वरूपं, रुद्दत्ति रुद्रग्रह, ऊसरति ऊपरं यत्र तृणादि नोद्गच्छति, च्छिन्नटंकातटीप्रपातः भृगुप्रपातादिकं वा; दग्धं दवदग्धमादिशब्दात् विद्युत्हतादिपरिग्रहः, इत्यादि सर्व क्षेत्रे द्रष्टव्यं तत्र यत् अमणुमदुमा य होंति दव्वंमीत्युक्तं तदेतत् व्याख्यानयति ।
For Private and Personal Use Only